८० सर्गः
ततः पौलस्त्य सचिवाः श्रुत्वा चेन्द्रजितं हतम्।आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः॥ १युद्धे हतो महाराज लक्ष्मणेन तवात्मजः।विभीषणसहायेन मिषतां नो महाद्युते॥ २शूरः शूरेण संगम्य संयुगेष्वपराजितः।लक्ष्णनेन हतः शूरः पुत्रस्ते विबुधेन्द्रजित्॥ ३स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम्।घोरमिन्द्रजितः संख्ये कश्मलं प्राविशन्महत्॥ ४उपलभ्य चिरात्संज्ञां राजा राक्षसपुंगवः।पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः॥ ५हा राक्षसचमूमुख्य मम वत्स महारथ।जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः॥ ६ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि।मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं रणे॥ ७अद्य वैवस्वतो राजा भूयो बहुमतो मम।येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा॥ ८एष पन्थाः सुयोधानां सर्वामरगणेष्वपि।यः कृते हन्यते भर्तुः स पुमान्स्वर्गमृच्छति॥ ९अद्य देवगणाः सर्वे लोकपालास्तथर्षयः।हतमिन्द्रजितं दृष्ट्वा सुखं स्वप्स्यन्ति निर्भयाः॥ १०अद्य लोकास्त्रयः कृत्स्नाः पृथिवी च सकानना।एकेनेन्द्रजिता हीना शूण्येव प्रतिभाति मे॥ ११अद्य नैरृतकन्यायां श्रोष्याम्यन्तःपुरे रवम्।करेणुसंघस्य यथा निनादं गिरिगह्वरे॥ १२यौवराज्यं च लङ्कां च रक्षांसि च परंतप।मातरं मां च भार्यां च क्व गतोऽसि विहाय नः॥ १३मम नाम त्वया वीर गतस्य यमसादनम्।प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे॥ १४स त्वं जीवति सुग्रीवे राघवे च सलक्ष्मणे।मम शल्यमनुद्धृत्य क्व गतोऽसि विहाय नः॥ १५एवमादिविलापार्तं रावणं राक्षसाधिपम्।आविवेश महान्कोपः पुत्रव्यसनसंभवः॥ १६घोरं प्रकृत्या रूपं तत्तस्य क्रोधाग्निमूर्छितम्।बभूव रूपं रुद्रस्य क्रुद्धस्येव दुरासदम्॥ १७तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नस्रबिन्दवः।दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः॥ १८दन्तान्विदशतस्तस्य श्रूयते दशनस्वनः।यन्त्रस्यावेष्ट्यमानस्य महतो दानवैरिव॥ १९कालाग्निरिव संक्रुद्धो यां यां दिशमवैक्षत।तस्यां तस्यां भयत्रस्ता राक्षसाः संनिलिल्यिरे॥ २०तमन्तकमिव क्रुद्धं चराचरचिखादिषुम्।वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः॥ २१ततः परमसंक्रुद्धो रावणो राक्षसाधिपः।अब्रवीद्रक्षसां मध्ये संस्तम्भयिषुराहवे॥ २२मया वर्षसहस्राणि चरित्वा दुश्चरं तपः।तेषु तेष्ववकाशेषु स्वयम्भूः परितोषितः॥ २३तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयम्भुवः।नासुरेभ्यो न देवेभ्यो भयं मम कदाचन॥ २४कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम्।देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः॥ २५तेन मामद्य संयुक्तं रथस्थमिह संयुगे।प्रतीयात्कोऽद्य मामाजौ साक्षादपि पुरंदरः॥ २६यत्तदाभिप्रसन्नेन सशरं कार्मुकं महत्।देवासुरविमर्देषु मम दत्तं स्वयम्भुवा॥ २७अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां महत्।रामलक्ष्मणयोरेव वधाय परमाहवे॥ २८स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः।समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत॥ २९प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनान्।दीनो दीनस्वरान्सर्वांस्तानुवाच निशाचरान्॥ ३०मायया मम वत्सेन वञ्चनार्थं वनौकसाम्।किंचिदेव हतं तत्र सीतेयमिति दर्शितम्॥ ३१तदिदं सत्यमेवाहं करिष्ये प्रियमात्मनः।वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम्।इत्येवमुक्त्वा सचिवान्खड्गमाशु परामृशत्॥ ३२उद्धृत्य गुणसंपन्नं विमलाम्बरवर्चसं।निष्पपात स वेगेन सभायाः सचिवैर्वृतः॥ ३३रावणः पुत्रशोकेन भृशमाकुलचेतनः।संक्रुद्धः खड्गमादाय सहसा यत्र मैथिली॥ ३४व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः।ऊचुश्चान्योन्यमाश्लिष्य संक्रुद्धं प्रेक्ष्य राक्षसाः॥ ३५अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः।लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः।बहवः शत्रवश्चान्ये संयुगेष्वभिपातिताः॥ ३६तेषां संजल्पमानानामशोकवनिकां गताम्।अभिदुद्राव वैदेहीं रावणः क्रोधमूर्छितः॥ ३७वार्यमाणः सुसंक्रुद्धः सुहृद्भिर्हितबुद्धिभिः।अभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीमिव॥ ३८मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता।ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम्॥ ३९तं निशाम्य सनिस्त्रिंशं व्यथिता जनकात्मजा।निवार्यमाणं बहुशः सुहृद्भिरनिवर्तिनम्॥ ४०यथायं मामभिक्रुद्धः समभिद्रवति स्वयम्।वधिष्यति सनाथां मामनाथामिव दुर्मतिः॥ ४१बहुशश्चोदयामास भर्तारं मामनुव्रताम्।भार्या भव रमस्येति प्रत्याख्यातोऽभवन्मया॥ ४२सोऽयं मामनुपस्थानाद्व्यक्तं नैराश्यमागतः।क्रोधमोहसमाविष्टो निहन्तुं मां समुद्यतः॥ ४३अथ वा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ।मन्निमित्तमनार्येण समरेऽद्य निपातितौ।अहो धिन्मन्निमित्तोऽयं विनाशो राजपुत्रयोः॥ ४४हनूमतो हि तद्वाक्यं न कृतं क्षुद्रया मया।यद्यहं तस्य पृष्ठेन तदायासमनिन्दिता।नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती॥ ४५मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति।एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि॥ ४६सा हि जन्म च बाल्यं च यौवनं च महात्मनः।धर्मकार्याणि रूपं च रुदती संस्रमिष्यति॥ ४७निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना।अग्निमारोक्ष्यते नूनमपो वापि प्रवेक्ष्यति॥ ४८धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम्।यन्निमित्तमिदं दुःखं कौसल्या प्रतिपत्स्यते॥ ४९इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम्।रोहिणीमिव चन्द्रेण विना ग्रहवशं गताम्॥ ५०सुपार्श्वो नाम मेधावी रावणं राक्षसेश्वरम्।निवार्यमाणं सचिवैरिदं वचनमब्रवीत्॥ ५१कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज।हन्तुमिच्छसि वैदेहीं क्रोधाद्धर्ममपास्य हि॥ ५२वेद विद्याव्रत स्नातः स्वधर्मनिरतः सदा।स्त्रियाः कस्माद्वधं वीर मन्यसे राक्षसेश्वर॥ ५३मैथिलीं रूपसंपन्नां प्रत्यवेक्षस्व पार्थिव।त्वमेव तु सहास्माभी राघवे क्रोधमुत्सृज॥ ५४अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम्।कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः॥ ५५शूरो धीमान्रथी खड्गी रथप्रवरमास्थितः।हत्वा दाशरथिं रामं भवान्प्राप्स्यति मैथिलीम्॥ ५६स तद्दुरात्मा सुहृदा निवेदितंवचः सुधर्म्यं प्रतिगृह्य रावणः।गृहं जगामाथ ततश्च वीर्यवान्पुनः सभां च प्रययौ सुहृद्वृतः॥ ५७इति श्रीरामायणे युद्धकाण्डे अशीतितमः सर्गः ॥ ८०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved