॥ ॐ श्री गणपतये नमः ॥

८२ सर्गः
तानि नागसहस्राणि सारोहाणां च वाजिनाम्।रथानां चाग्निवर्णानां सध्वजानां सहस्रशः॥ १राक्षसानां सहस्राणि गदापरिघयोधिनाम्।काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम्॥ २निहतानि शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः।रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा॥ ३दृष्ट्वा श्रुत्वा च संभ्रान्ता हतशेषा निशाचराः।राक्षस्यश्च समागम्य दीनाश्चिन्तापरिप्लुताः॥ ४विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः।राक्षस्यः सह संगम्य दुःखार्ताः पर्यदेवयन्॥ ५कथं शूर्पणखा वृद्धा कराला निर्णतोदरी।आससाद वने रामं कन्दर्पमिव रूपिणम्॥ ६सुकुमारं महासत्त्वं सर्वभूतहिते रतम्।तं दृष्ट्वा लोकवध्या सा हीनरूपा प्रकामिता॥ ७कथं सर्वगुणैर्हीना गुणवन्तं महौजसं।सुमुखं दुर्मुखी रामं कामयामास राक्षसी॥ ८जनस्यास्याल्पभाग्यत्वात्पलिनी श्वेतमूर्धजा।अकार्यमपहास्यं च सर्वलोकविगर्हितम्॥ ९राक्षसानां विनाशाय दूषणस्य खरस्य च।चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम्॥ १०तन्निमित्तमिदं वैरं रावणेन कृतं महत्।वधाय नीता सा सीता दशग्रीवेण रक्षसा॥ ११न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम्।बद्धं बलवता वैरमक्षयं राघवेण ह॥ १२वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसं।हतमेकेन रामेण पर्याप्तं तन्निदर्शनम्॥ १३चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्।निहतानि जनस्थाने शरैरग्निशिखोपमैः॥ १४खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा।शरैरादित्यसंकाशैः पर्याप्तं तन्निदर्शनम्॥ १५हतो योजनबाहुश्च कबन्धो रुधिराशनः।क्रोधार्तो विनदन्सोऽथ पर्याप्तं तन्निदर्शनम्॥ १६जघान बलिनं रामः सहस्रनयनात्मजम्।बालिनं मेघसंकाशं पर्याप्तं तन्निदर्शनम्॥ १७ऋश्यमूके वसञ्शैले दीनो भग्नमनोरथः।सुग्रीवः स्थापितो राज्ये पर्याप्तं तन्निदर्शनम्॥ १८धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम्।युक्तं विभीषणेनोक्तं मोहात्तस्य न रोचते॥ १९विभीषणवचः कुर्याद्यदि स्म धनदानुजः।श्मशानभूता दुःखार्ता नेयं लङ्का पुरी भवेत्॥ २०कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम्।प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते॥ २१मम पुत्रो मम भ्राता मम भर्ता रणे हतः।इत्येवं श्रूयते शब्दो राक्षसानां कुले कुले॥ २२रथाश्चाश्वाश्च नागाश्च हताः शतसहस्रशः।रणे रामेण शूरेण राक्षसाश्च पदातयः॥ २३रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः।हन्ति नो रामरूपेण यदि वा स्वयमन्तकः॥ २४हतप्रवीरा रामेण निराशा जीविते वयम्।अपश्यन्त्यो भयस्यान्तमनाथा विलपामहे॥ २५रामहस्ताद्दशग्रीवः शूरो दत्तवरो युधि।इदं भयं महाघोरमुत्पन्नं नावबुध्यते॥ २६न देवा न च गन्धर्वा न पिशाचा न राक्षसाः।उपसृष्टं परित्रातुं शक्ता रामेण संयुगे॥ २७उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे।कथयिष्यन्ति रामेण रावणस्य निबर्हणम्॥ २८पितामहेन प्रीतेन देवदानवराक्षसैः।रावणस्याभयं दत्तं मानुषेभ्यो न याचितम्॥ २९तदिदं मानुषान्मन्ये प्राप्तं निःसंशयं भयम्।जीवितान्तकरं घोरं रक्षसां रावणस्य च॥ ३०पीड्यमानास्तु बलिना वरदानेन रक्षसा।दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन्॥ ३१देवतानां हितार्थाय महात्मा वै पितामहः।उवाच देवताः सर्वा इदं तुष्टो महद्वचः॥ ३२अद्य प्रभृति लोकांस्त्रीन्सर्वे दानवराक्षसाः।भयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम्॥ ३३दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः।वृषध्वजस्त्रिपुरहा महादेवः प्रसादितः॥ ३४प्रसन्नस्तु महादेवो देवानेतद्वचोऽब्रवीत्।उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा॥ ३५एषा देवैः प्रयुक्ता तु क्षुद्यथा दानवान्पुरा।भक्षयिष्यति नः सीता राक्षसघ्नी सरावणान्॥ ३६रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः।अयं निष्टानको घोरः शोकेन समभिप्लुतः॥ ३७तं न पश्यामहे लोके यो नः शरणदो भवेत्।राघवेणोपसृष्टानां कालेनेव युगक्षये॥ ३८इतीव सर्वा रजनीचरस्त्रियःपरस्परं संपरिरभ्य बाहुभिः।विषेदुरार्तातिभयाभिपीडिताविनेदुरुच्चैश्च तदा सुदारुणम्॥ ३९इति श्रीरामायणे युद्धकाण्डे द्व्यशीतितमः सर्गः ॥ ८२
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved