८७ सर्गः
महोदरमहापार्श्वौ हतौ दृष्ट्वा तु राक्षसौ।तस्मिंश्च निहते वीरे विरूपाक्षे महाबले॥ १आविवेश महान्क्रोधो रावणं तु महामृधे।सूतं संचोदयामास वाक्यं चेदमुवाच ह॥ २निहतानाममात्यानां रुद्धस्य नगरस्य च।दुःखमेषोऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ॥ ३रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम्।प्रशाखा यस्य सुग्रीवो जाम्बवान्कुमुदो नलः॥ ४स दिशो दश घोषेण रथस्यातिरथो महान्।नादयन्प्रययौ तूर्णं राघवं चाभ्यवर्तत॥ ५पूरिता तेन शब्देन सनदीगिरिकानना।संचचाल मही सर्वा सवराहमृगद्विपा॥ ६तामसं सुमहाघोरं चकारास्त्रं सुदारुणम्।निर्ददाह कपीन्सर्वांस्ते प्रपेतुः समन्ततः॥ ७तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः।दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः॥ ८स ददर्श ततो रामं तिष्ठन्तमपराजितम्।लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा॥ ९आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः।पद्मपत्रविशालाक्षं दीर्घबाहुमरिंदमम्॥ १०वानरांश्च रणे भग्नानापतन्तं च रावणम्।समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम्॥ ११विस्फारयितुमारेभे ततः स धनुरुत्तमम्।महावेगं महानादं निर्भिन्दन्निव मेदिनीम्॥ १२तयोः शरपथं प्राप्य रावणो राजपुत्रयोः।स बभूव यथा राहुः समीपे शशिसूर्ययोः॥ १३रावणस्य च बाणौघै रामविस्फरितेन च।शब्देन राक्षसास्तेन पेतुश्च शतशस्तदा॥ १४तमिच्छन्प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः।मुमोच धनुरायम्य शरानग्निशिखोपमान्॥ १५तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता।बाणान्बाणैर्महातेजा रावणः प्रत्यवारयत्॥ १६एकमेकेन बाणेन त्रिभिस्त्रीन्दशभिर्दश।लक्ष्मणस्य प्रचिच्छेद दर्शयन्पाणिलाघवम्॥ १७अभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयः।आससाद ततो रामं स्थितं शैलमिवाचलम्॥ १८स संख्ये राममासाद्य क्रोधसंरक्तलोचनः।व्यसृजच्छरवर्षानि रावणो राघवोपरि॥ १९शरधारास्ततो रामो रावणस्य धनुश्च्युताः।दृष्ट्वैवापतिताः शीघ्रं भल्लाञ्जग्राह सत्वरम्॥ २०ताञ्शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः।दीप्यमानान्महावेगान्क्रुद्धानाशीविषानिव॥ २१राघवो रावणं तूर्णं रावणो राघवं तथा।अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः॥ २२चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम्।बाणवेगान्समुदीक्ष्य समरेष्वपराजितौ॥ २३तयोर्भूतानि वित्रेषुर्युगपत्संप्रयुध्यतोः।रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः॥ २४संततं विविधैर्बाणैर्बभूव गगनं तदा।घनैरिवातपापाये विद्युन्मालासमाकुलैः॥ २५गवाक्षितमिवाकाशं बभूव शूरवृष्टिभिः।महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः॥ २६शरान्धकारं तौ भीमं चक्रतुः परमं तदा।गतेऽस्तं तपने चापि महामेघाविवोत्थितौ॥ २७बभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोः।अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव॥ २८उभौ हि परमेष्वासावुभौ शस्त्रविशारदौ।उभौ चास्त्रविदां मुख्यावुभौ युद्धे विचेरतुः॥ २९उभौ हि येन व्रजतस्तेन तेन शरोर्मयः।ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव॥ ३०ततः संसक्तहस्तस्तु रावणो लोकरावणः।नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत॥ ३१रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम्।शिरसा धारयन्रामो न व्यथां प्रत्यपद्यत॥ ३२अथ मन्त्रानपि जपन्रौद्रमस्त्रमुदीरयन्।शरान्भूयः समादाय रामः क्रोधसमन्वितः॥ ३३मुमोच च महातेजाश्चापमायम्य वीर्यवान्।ताञ्शरान्राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः॥ ३४ते महामेघसंकाशे कवचे पतिताः शराः।अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा॥ ३५पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम्।ललाटे परमास्त्रेण सर्वास्त्रकुशलोऽभिनत्॥ ३६ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः।श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलताः॥ ३७निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्छितः।आसुरं सुमहाघोरमन्यदस्त्रं समाददे॥ ३८सिंहव्याघ्रमुखांश्चान्यान्कङ्ककाकमुखानपि।गृध्रश्येनमुखांश्चापि सृगालवदनांस्तथा॥ ३९ईहामृगमुखांश्चान्यान्व्यादितास्यान्भयावहान्।पञ्चास्याँल्लेलिहानांश्च ससर्ज निशिताञ्शरान्॥ ४०शरान्खरमुखांश्चान्यान्वराहमुखसंस्थितान्।श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान्॥ ४१एतांश्चान्यांश्च मायाभिः ससर्ज निशिताञ्शरान्।रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन्॥ ४२आसुरेण समाविष्टः सोऽस्त्रेण रघुनन्दनः।ससर्जास्त्रं महोत्साहः पावकं पावकोपमः॥ ४३अग्निदीप्तमुखान्बाणांस्तथा सूर्यमुखानपि।चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि॥ ४४ग्रहनक्षत्रवर्णांश्च महोल्कामुखसंस्थितान्।विद्युज्जिह्वोपमांश्चान्यान्ससर्ज निशिताञ्शरान्॥ ४५ते रावणशरा घोरा राघवास्त्रसमाहताः।विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः॥ ४६तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा।हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः॥ ४७इति श्रीरामायणे युद्धकाण्डे सप्ताशीतितमः सर्गः ॥ ८७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved