९० सर्गः
लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा स राघवः।रावणाय शरान्घोरान्विससर्ज चमूमुखे॥ १दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः।आजघान महाघोरैर्धाराभिरिव तोयदः॥ २दीप्तपावकसंकाशैः शरैः काञ्चनभूषणैः।निर्बिभेद रणे रामो दशग्रीवं समाहितः॥ ३भूमिस्थितस्य रामस्य रथस्थस्य च रक्षसः।न समं युद्धमित्याहुर्देवगन्धर्वदानवाः॥ ४ततः काञ्चनचित्राङ्गः किंकिणीशतभूषितः।तरुणादित्यसंकाशो वैदूर्यमयकूबरः॥ ५सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः।हरिभिः सूर्यसंकाशैर्हेमजालविभूषितैः॥ ६रुक्मवेणुध्वजः श्रीमान्देवराजरथो वरः।अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात्॥ ७अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः।प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः॥ ८सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते।दत्तस्तव महासत्त्व श्रीमाञ्शत्रुनिबर्हणः॥ ९इदमैन्द्रं महच्चापं कवचं चाग्निसंनिभम्।शराश्चादित्यसंकाशाः शक्तिश्च विमला शिताः॥ १०आरुह्येमं रथं वीर राक्षसं जहि रावणम्।मया सारथिना राम महेन्द्र इव दानवान्॥ ११इत्युक्तः स परिक्रम्य रथं तमभिवाद्य च।आरुरोह तदा रामो लोकाँल्लक्ष्म्या विराजयन्॥ १२तद्बभूवाद्भुतं युद्धं द्वैरथं लोमहर्षणम्।रामस्य च महाबाहो रावणस्य च रक्षसः॥ १३स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः।अस्त्रं राक्षसराजस्य जघान परमास्त्रवित्॥ १४अस्त्रं तु परमं घोरं राक्षसं राकसाधिपः।ससर्ज परमक्रुद्धः पुनरेव निशाचरः॥ १५ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः।अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः॥ १६ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः।राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः॥ १७तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः।दिशश्च संतताः सर्वाः प्रदिशश्च समावृताः॥ १८तान्दृष्ट्वा पन्नगान्रामः समापतत आहवे।अस्त्रं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम्॥ १९ते राघवधनुर्मुक्ता रुक्मपुङ्खाः शिखिप्रभाः।सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः॥ २०ते तान्सर्वाञ्शराञ्जघ्नुः सर्परूपान्महाजवान्।सुपर्णरूपा रामस्य विशिखाः कामरूपिणः॥ २१अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः।अभ्यवर्षत्तदा रामं घोराभिः शरवृष्टिभिः॥ २२ततः शरसहस्रेण राममक्लिष्टकारिणम्।अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत॥ २३पातयित्वा रथोपस्थे रथात्केतुं च काञ्चनम्।ऐन्द्रानभिजघानाश्वाञ्शरजालेन रावणः॥ २४विषेदुर्देवगन्धर्वा दानवाश्चारणैः सह।राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः॥ २५व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः।रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा॥ २६प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम्।समाक्रम्य बुधस्तस्थौ प्रजानामशुभावहः॥ २७सधूमपरिवृत्तोर्मिः प्रज्वलन्निव सागरः।उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम्॥ २८शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः।अदृश्यत कबन्धाङ्गः संसक्तो धूमकेतुना॥ २९कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम्।आक्रम्याङ्गारकस्तस्थौ विशाखामपि चाम्बरे॥ ३०दशास्यो विंशतिभुजः प्रगृहीतशरासनः।अदृश्यत दशग्रीवो मैनाक इव पर्वतः॥ ३१निरस्यमानो रामस्तु दशग्रीवेण रक्षसा।नाशकदभिसंधातुं सायकान्रणमूर्धनि॥ ३२स कृत्वा भ्रुकुटीं क्रुद्धः किंचित्संरक्तलोचनः।जगाम सुमहाक्रोधं निर्दहन्निव चक्षुषा॥ ३३इति श्रीरामायणे युद्धकाण्डे नवतितमः सर्गः ॥ ९०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved