९२ सर्गः
स तु तेन तदा क्रोधात्काकुत्स्थेनार्दितो रणे।रावणः समरश्लाघी महाक्रोधमुपागमत्॥ १स दीप्तनयनो रोषाच्चापमायम्य वीर्यवान्।अभ्यर्दयत्सुसंक्रुद्धो राघवं परमाहवे॥ २बाणधारासहस्रैस्तु स तोयद इवाम्बरात्।राघवं रावणो बाणैस्तटाकमिव पूरयत्॥ ३पूरितः शरजालेन धनुर्मुक्तेन संयुगे।महागिरिरिवाकम्प्यः काकुस्थो न प्रकम्पते॥ ४स शरैः शरजालानि वारयन्समरे स्थितः।गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान्॥ ५ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः।निजघानोरसि क्रुद्धो राघवस्य महात्मनः॥ ६स शोणितसमादिग्धः समरे लक्ष्मणाग्रजः।दृष्टः फुल्ल इवारण्ये सुमहान्किंशुकद्रुमः॥ ७शराभिघातसंरब्धः सोऽपि जग्राह सायकान्।काकुत्स्थः सुमहातेजा युगान्तादित्यवर्चसः॥ ८ततोऽन्योन्यं सुसंरब्धावुभौ तौ रामरावणौ।शरान्धकारे समरे नोपालक्षयतां तदा॥ ९ततः क्रोधसमाविष्टो रामो दशरथात्मजः।उवाच रावणं वीरः प्रहस्य परुषं वचः॥ १०मम भार्या जनस्थानादज्ञानाद्राक्षसाधम।हृता ते विवशा यस्मात्तस्मात्त्वं नासि वीर्यवान्॥ ११मया विरहितां दीनां वर्तमानां महावने।वैदेहीं प्रसभं हृत्वा शूरोऽहमिति मन्यसे॥ १२स्त्रीषु शूर विनाथासु परदाराभिमर्शके।कृत्वा कापुरुषं कर्म शूरोऽहमिति मन्यसे॥ १३भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित।दर्पान्मृत्युमुपादाय शूरोऽहमिति मन्यसे॥ १४शूरेण धनदभ्रात्रा बलैः समुदितेन च।श्लाघनीयं यशस्यं च कृतं कर्म महत्त्वया॥ १५उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च।कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत्फलम्॥ १६शूरोऽहमिति चात्मानमवगच्छसि दुर्मते।नैव लज्जास्ति ते सीतां चोरवद्व्यपकर्षतः॥ १७यदि मत्संनिधौ सीता धर्षिता स्यात्त्वया बलात्।भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः॥ १८दिष्ट्यासि मम दुष्टात्मंश्चक्षुर्विषयमागतः।अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम्॥ १९अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम्।क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु॥ २०निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण।पिबन्तु रुधिरं तर्षाद्बाणशल्यान्तरोथितम्॥ २१अद्य मद्बाणाभिन्नस्य गतासोः पतितस्य ते।कर्षन्त्वन्त्राणि पतगा गरुत्मन्त इवोरगान्॥ २२इत्येवं स वदन्वीरो रामः शत्रुनिबर्हणः।राक्षसेन्द्रं समीपस्थं शरवर्षैरवाकिरत्॥ २३बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे।रामस्यास्त्रबलं चैव शत्रोर्निधनकाङ्क्षिणः॥ २४प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितात्मनः।प्रहर्षाच्च महातेजाः शीघ्रहस्ततरोऽभवत्॥ २५शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः।भूय एवार्दयद्रामो रावणं राक्षसान्तकृत्॥ २६हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात्।हन्यमानो दशग्रीवो विघूर्णहृदयोऽभवत्॥ २७यदा च शस्त्रं नारेभे न व्यकर्षच्छरासनम्।नास्य प्रत्यकरोद्वीर्यं विक्लवेनान्तरात्मना॥ २८क्षिप्ताश्चापि शरास्तेन शस्त्राणि विविधानि च।न रणार्थाय वर्तन्ते मृत्युकालेऽभिवर्ततः॥ २९सूतस्तु रथनेतास्य तदवस्थं निरीक्ष्य तम्।शनैर्युद्धादसंभान्तो रथं तस्यापवाहयत्॥ ३०इति श्रीरामायणे युद्धकाण्डे द्विनवतितमः सर्गः ॥ ९२
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved