९३ सर्गः
स तु मोहात्सुसंक्रुद्धः कृतान्तबलचोदितः।क्रोधसंरक्तनयनो रावणो सूतमब्रवीत्॥ १हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम्।भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा॥ २विमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम्।मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे॥ ३किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च।त्वया शत्रुसमक्षं मे रथोऽयमपवाहितः॥ ४त्वयाद्य हि ममानार्य चिरकालसमार्जितम्।यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः॥ ५शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः।पश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया॥ ६यस्त्वं रथमिमं मोहान्न चोद्वहसि दुर्मते।सत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः॥ ७न हीदं विद्यते कर्म सुहृदो हितकाङ्क्षिणः।रिपूणां सदृशं चैतन्न त्वयैतत्स्वनुष्ठितम्॥ ८निवर्तय रथं शीघ्रं यावन्नापैति मे रिपुः।यदि वाप्युषितोऽसि त्वं स्मर्यन्ते यदि वा गुणाः॥ ९एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना।अब्रवीद्रावणं सूतो हितं सानुनयं वचः॥ १०न भीतोऽस्मि न मूढोऽस्मि नोपजप्तोऽस्मि शत्रुभिः।न प्रमत्तो न निःस्नेहो विस्मृता न च सत्क्रिया॥ ११मया तु हितकामेन यशश्च परिरक्षता।स्नेहप्रस्कन्नमनसा प्रियमित्यप्रियं कृतम्॥ १२नास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम्।कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि॥ १३श्रूयतामभिधास्यामि यन्निमित्तं मया रथः।नदीवेग इवाम्भोभिः संयुगे विनिवर्तितः॥ १४श्रमं तवावगच्छामि महता रणकर्मणा।न हि ते वीर सौमुख्यं प्रहर्षं वोपधारये॥ १५रथोद्वहनखिन्नाश्च त इमे रथवाजिनः।दीना घर्मपरिश्रान्ता गावो वर्षहता इव॥ १६निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः।तेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम्॥ १७देशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च।दैन्यं हर्षश्च खेदश्च रथिनश्च बलाबलम्॥ १८स्थलनिम्नानि भूमेश्च समानि विषमाणि च।युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम्॥ १९उपयानापयाने च स्थानं प्रत्यपसर्पणम्।सर्वमेतद्रथस्थेन ज्ञेयं रथकुटुम्बिना॥ २०तव विश्रामहेतोस्तु तथैषां रथवाजिनाम्।रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया॥ २१न मया स्वेच्छया वीर रथोऽयमपवाहितः।भर्तृस्नेहपरीतेन मयेदं यत्कृतं विभो॥ २२आज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन।तत्करिष्याम्यहं वीरं गतानृण्येन चेतसा॥ २३संतुष्टस्तेन वाक्येन रावणस्तस्य सारथेः।प्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम्॥ २४रथं शीघ्रमिमं सूत राघवाभिमुखं कुरु।नाहत्वा समरे शत्रून्निवर्तिष्यति रावणः॥ २५एवमुक्त्वा ततस्तुष्टो रावणो राक्षसेश्वरः।ददौ तस्य शुभं ह्येकं हस्ताभरणमुत्तमम्॥ २६ततो द्रुतं रावणवाक्यचोदितःप्रचोदयामास हयान्स सारथिः।स राक्षसेन्द्रस्य ततो महारथःक्षणेन रामस्य रणाग्रतोऽभवत्॥ २७इति श्रीरामायणे युद्धकाण्डे त्रिनवतितमः सर्गः ॥ ९३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved