॥ ॐ श्री गणपतये नमः ॥

९४ सर्गः
तमापतन्तं सहसा स्वनवन्तं महाध्वजम्।रथं राक्षसराजस्य नरराजो ददर्श ह॥ १कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा।तडित्पताकागहनं दर्शितेन्द्रायुधायुधम्।शरधारा विमुञ्चन्तं धारासारमिवान्बुदम्॥ २तं दृष्ट्वा मेघसंकाशमापतन्तं रथं रिपोः।गिरेर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम्।उवाच मातलिं रामः सहस्राक्षस्य सारथिम्॥ ३मातले पश्य संरब्धमापतन्तं रथं रिपोः।यथापसव्यं पतता वेगेन महता पुनः।समरे हन्तुमात्मानं तथानेन कृता मतिः॥ ४तदप्रमादमातिष्ठ प्रत्युद्गच्छ रथं रिपोः।विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम्॥ ५अविक्लवमसंभ्रान्तमव्यग्रहृदयेक्षणम्।रश्मिसंचारनियतं प्रचोदय रथं द्रुतम्॥ ६कामं न त्वं समाधेयः पुरंदररथोचितः।युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये॥ ७परितुष्टः स रामस्य तेन वाक्येन मातलिः।प्रचोदयामास रथं सुरसारथिसत्तमः॥ ८अपसव्यं ततः कुर्वन्रावणस्य महारथम्।चक्रोत्क्षिप्तेन रजसा रावणं व्यवधूनयत्॥ ९ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः।रथप्रतिमुखं रामं सायकैरवधूनयत्॥ १०धर्षणामर्षितो रामो धैर्यं रोषेण लङ्घयन्।जग्राह सुमहावेगमैन्द्रं युधि शरासनम्।शरांश्च सुमहातेजाः सूर्यरश्मिसमप्रभान्॥ ११तदुपोढं महद्युद्धमन्योन्यवधकाङ्क्षिणोः।परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः॥ १२ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।समीयुर्द्वैरथं द्रष्टुं रावणक्षयकाङ्क्षिणः॥ १३समुत्पेतुरथोत्पाता दारुणा लोमहर्षणाः।रावणस्य विनाशाय राघवस्य जयाय च॥ १४ववर्ष रुधिरं देवो रावणस्य रथोपरि।वाता मण्डलिनस्तीव्रा अपसव्यं प्रचक्रमुः॥ १५महद्गृध्रकुलं चास्य भ्रममाणं नभस्तले।येन येन रथो याति तेन तेन प्रधावति॥ १६संध्यया चावृता लङ्का जपापुष्पनिकाशया।दृश्यते संप्रदीतेव दिवसेऽपि वसुंधरा॥ १७सनिर्घाता महोल्काश्च संप्रचेतुर्महास्वनाः।विषादयन्त्यो रक्षांसि रावणस्य तदाहिताः॥ १८रावणश्च यतस्तत्र प्रचचाल वसुंधरा।रक्षसां च प्रहरतां गृहीता इव बाहवः॥ १९ताम्राः पीताः सिताः श्वेताः पतिताः सूर्यरश्मयः।दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः॥ २०गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः।प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः॥ २१प्रतिकूलं ववौ वायू रणे पांसून्समुत्किरन्।तस्य राक्षसराजस्य कुर्वन्दृष्टिविलोपनम्॥ २२निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः।दुर्विषह्य स्वना घोरा विना जलधरस्वनम्॥ २३दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः।पांसुवर्षेण महता दुर्दर्शं च नभोऽभवत्॥ २४कुर्वन्त्यः कलहं घोरं सारिकास्तद्रथं प्रति।निपेतुः शतशस्तत्र दारुणा दारुणस्वनाः॥ २५जघनेभ्यः स्फुलिङ्गांश्च नेत्रेभ्योऽश्रूणि संततम्।मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च॥ २६एवं प्रकारा बहवः समुत्पाता भयावहाः।रावणस्य विनाशाय दारुणाः संप्रजज्ञिरे॥ २७रामस्यापि निमित्तानि सौम्यानि च शिवानि च।बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः॥ २८ततो निरीक्ष्यात्मगतानि राघवोरणे निमित्तानि निमित्तकोविदः।जगाम हर्षं च परां च निर्वृतिंचकार युद्धेऽभ्यधिकं च विक्रमम्॥ २९इति श्रीरामायणे युद्धकाण्डे चतुर्नवतितमः सर्गः ॥ ९४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved