॥ ॐ श्री गणपतये नमः ॥

९९ सर्गः
तासां विलपमानानां तथा राक्षसयोषिताम्।ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत॥ १दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा।पतिं मन्दोदरी तत्र कृपणा पर्यदेवयत्॥ २ननु नाम महाबाहो तव वैश्रवणानुज।क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरंदरः॥ ३ऋषयश्च महीदेवा गन्धर्वाश्च यशस्विनः।ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः॥ ४स त्वं मानुषमात्रेण रामेण युधि निर्जितः।न व्यपत्रपसे राजन्किमिदं राक्षसर्षभ॥ ५कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम्।अविषह्यं जघान त्वां मानुषो वनगोचरः॥ ६मानुषाणामविषये चरतः कामरूपिणः।विनाशस्तव रामेण संयुगे नोपपद्यते॥ ७न चैतत्कर्म रामस्य श्रद्दधामि चमूमुखे।सर्वतः समुपेतस्य तव तेनाभिमर्शनम्॥ ८इन्द्रियाणि पुरा जित्वा जितं त्रिभुवणं त्वया।स्मरद्भिरिव तद्वैरमिन्द्रियैरेव निर्जितः॥ ९अथ वा रामरूपेण वासवः स्वयमागतः।मायां तव विनाशाय विधायाप्रतितर्किताम्॥ १०यदैव हि जनस्थाने राक्षसैर्बहुभिर्वृतः।खरस्तव हतो भ्राता तदैवासौ न मानुषः॥ ११यदैव नगरीं लङ्कां दुष्प्रवेषां सुरैरपि।प्रविष्टो हनुमान्वीर्यात्तदैव व्यथिता वयम्॥ १२क्रियतामविरोधश्च राघवेणेति यन्मया।उच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता॥ १३अकस्माच्चाभिकामोऽसि सीतां राक्षसपुंगव।ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च॥ १४अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते।सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम्॥ १५न कुलेन न रूपेण न दाक्षिण्येन मैथिली।मयाधिका वा तुल्या वा त्वं तु मोहान्न बुध्यसे॥ १६सर्वथा सर्वभूतानां नास्ति मृत्युरलक्षणः।तव तावदयं मृत्युर्मैथिलीकृतलक्षणः॥ १७मैथिली सह रामेण विशोका विहरिष्यति।अल्पपुण्या त्वहं घोरे पतिता शोकसागरे॥ १८कैलासे मन्दरे मेरौ तथा चैत्ररथे वने।देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया॥ १९विमानेनानुरूपेण या याम्यतुलया श्रिया।पश्यन्ती विविधान्देशांस्तांस्तांश्चित्रस्रगम्बरा।भ्रंशिता कामभोगेभ्यः सास्मि वीरवधात्तव॥ २०सत्यवाक्स महाभागो देवरो मे यदब्रवीत्।अयं राक्षसमुख्यानां विनाशः पर्युपस्थितः॥ २१कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना।त्वया कृतमिदं सर्वमनाथं रक्षसां कुलम्॥ २२न हि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः।स्त्रीस्वभावात्तु मे बुद्धिः कारुण्ये परिवर्तते॥ २३सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः।आत्मानमनुशोचामि त्वद्वियोगेन दुःखिताम्॥ २४नीलजीमूतसंकाशः पीताम्बरशुभाङ्गदः।सर्वगात्राणि विक्षिप्य किं शेषे रुधिराप्लुतः।प्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे॥ २५महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः।यातुधानस्य दौहित्रीं किं त्वं मां नाभ्युदीक्षसे॥ २६येन सूदयसे शत्रून्समरे सूर्यवर्चसा।वज्रो वज्रधरस्येव सोऽयं ते सततार्चितः॥ २७रणे शत्रुप्रहरणो हेमजालपरिष्कृतः।परिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा॥ २८धिगस्तु हृदयं यस्या ममेदं न सहस्रधा।त्वयि पञ्चत्वमापन्ने फलते शोकपीडितम्॥ २९एतस्मिन्नन्तरे रामो विभीषणमुवाच ह।संस्कारः क्रियतां भ्रातुः स्त्रियश्चैता निवर्तय॥ ३०तं प्रश्रितस्ततो रामं श्रुतवाक्यो विभीषणः।विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः।रामस्यैवानुवृत्त्यर्थमुत्तरं प्रत्यभाषत॥ ३१त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा।नाहमर्होऽस्मि संस्कर्तुं परदाराभिमर्शकम्॥ ३२भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः।रावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात्॥ ३३नृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि।श्रुत्वा तस्य गुणान्सर्वे वक्ष्यन्ति सुकृतं पुनः॥ ३४तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः।विभीषणमुवाचेदं वाक्यज्ञो वाक्यकोविदम्॥ ३५तवापि मे प्रियं कार्यं त्वत्प्रभवाच्च मे जितम्।अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर॥ ३६अधर्मानृतसंयुक्तः काममेष निशाचरः।तेजस्वी बलवाञ्शूरः संग्रामेषु च नित्यशः॥ ३७शतक्रतुमुखैर्देवैः श्रूयते न पराजितः।महात्मा बलसंपन्नो रावणो लोकरावणः॥ ३८मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम्।क्रियतामस्य संस्कारो ममाप्येष यथा तव॥ ३९त्वत्सकाशान्महाबाहो संस्कारं विधिपूर्वकम्।क्षिप्रमर्हति धर्मज्ञ त्वं यशोभाग्भविष्यसि॥ ४०राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः।संस्कारेणानुरूपेण योजयामास रावणम्॥ ४१स ददौ पावकं तस्य विधियुक्तं विभीषणः।ताः स्त्रियोऽनुनयामास सान्त्वमुक्त्वा पुनः पुनः॥ ४२प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः।रामपार्श्वमुपागम्य तदातिष्ठद्विनीतवत्॥ ४३रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः।हर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः॥ ४४इति श्रीरामायणे युद्धकाण्डे नवनवतितमः सर्गः ॥ ९९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved