॥ ॐ श्री गणपतये नमः ॥

१०१ सर्गः
इति प्रतिसमादिष्टो हनूमान्मारुतात्मजः।प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः॥ १प्रविश्य तु महातेजा रावणस्य निवेशनम्।ददर्श शशिना हीनां सातङ्कामिव रोहिणीम्॥ २निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च।रामस्य वचनं सर्वमाख्यातुमुपचक्रमे॥ ३वैदेहि कुशली रामः ससुग्रीवः सलक्ष्मणः।कुशलं चाह सिद्धार्थो हतशत्रुररिंदमः॥ ४विभीषणसहायेन रामेण हरिभिः सह।निहतो रावणो देवि लक्ष्मणस्य नयेन च॥ ५पृष्ट्वा च कुशलं रामो वीरस्त्वां रघुनन्दनः।अब्रवीत्परमप्रीतः कृतार्थेनान्तरात्मना॥ ६प्रियमाख्यामि ते देवि त्वां तु भूयः सभाजये।दिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे॥ ७लब्धो नो विजयः सीते स्वस्था भव गतव्यथा।रावणः स हतः शत्रुर्लङ्का चेयं वशे स्थिता॥ ८मया ह्यलब्धनिद्रेण धृतेन तव निर्जये।प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ॥ ९संभ्रमश्च न कर्तव्यो वर्तन्त्या रावणालये।विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम्॥ १०तदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे।अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः॥ ११एवमुक्ता समुत्पत्य सीता शशिनिभानना।प्रहर्षेणावरुद्धा सा व्याजहार न किंचन॥ १२अब्रवीच्च हरिश्रेष्ठः सीतामप्रतिजल्पतीम्।किं त्वं चिन्तयसे देवि किं च मां नाभिभाषसे॥ १३एवमुक्ता हनुमता सीता धर्मे व्यवस्थिता।अब्रवीत्परमप्रीता हर्षगद्गदया गिरा॥ १४प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम्।प्रहर्षवशमापन्ना निर्वाक्यास्मि क्षणान्तरम्॥ १५न हि पश्यामि सदृशं चिन्तयन्ती प्लवंगम।मत्प्रियाख्यानकस्येह तव प्रत्यभिनन्दनम्॥ १६न च पश्यामि तत्सौम्य पृथिव्यामपि वानर।सदृशं मत्प्रियाख्याने तव दातुं भवेत्समम्॥ १७हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च।राज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम्॥ १८एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवंगमः।प्रगृहीताञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः॥ १९भर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि।स्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम्॥ २०तवैतद्वचनं सौम्ये सारवत्स्निग्धमेव च।रत्नौघाद्विविधाच्चापि देवराज्याद्विशिष्यते॥ २१अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः।हतशत्रुं विजयिनं रामं पश्यामि यत्स्थितम्॥ २२इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे।हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा॥ २३क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम्।घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः॥ २४राक्षस्यो दारुणकथा वरमेतं प्रयच्छ मे।इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः॥ २५मुष्टिभिः पाणिभिश्चैव चरणैश्चैव शोभने।घोरैर्जानुप्रहारैश्च दशनानां च पातनैः॥ २६भक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा।भृशं शुष्कमुखीभिश्च दारुणैर्लङ्घनैर्हतैः॥ २७एवंप्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि।हन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः॥ २८एवमुक्ता महुमता वैदेही जनकात्मजा।उवाच धर्मसहितं हनूमन्तं यशस्विनी॥ २९राजसंश्रयवश्यानां कुर्वतीनां पराज्ञया।विधेयानां च दासीनां कः कुप्येद्वानरोत्तम॥ ३०भाग्यवैषम्ययोगेन पुरा दुश्चरितेन च।मयैतत्प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते॥ ३१प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम्।दासीनां रावणस्याहं मर्षयामीह दुर्बला॥ ३२आज्ञप्ता रावणेनैता राक्षस्यो मामतर्जयन्।हते तस्मिन्न कुर्युर्हि तर्जनं वानरोत्तम॥ ३३अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः।ऋक्षेण गीतः श्लोको मे तं निबोध प्लवंगम॥ ३४न परः पापमादत्ते परेषां पापकर्मणाम्।समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः॥ ३५पापानां वा शुभानां वा वधार्हाणां प्लवंगम।कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति॥ ३६लोकहिंसाविहाराणां रक्षसां कामरूपिणम्।कुर्वतामपि पापानि नैव कार्यमशोभनम्॥ ३७एवमुक्तस्तु हनुमान्सीतया वाक्यकोविदः।प्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम्॥ ३८युक्ता रामस्य भवती धर्मपत्नी यशस्विनी।प्रतिसंदिश मां देवि गमिष्ये यत्र राघवः॥ ३९एवमुक्ता हनुमता वैदेही जनकात्मजा।अब्रवीद्द्रष्टुमिच्छामि भर्तारं वानरोत्तम॥ ४०तस्यास्तद्वचनं श्रुत्वा हनुमान्पवनात्मजः।हर्षयन्मैथिलीं वाक्यमुवाचेदं महाद्युतिः॥ ४१पूर्णचन्द्राननं रामं द्रक्ष्यस्यार्ये सलक्ष्मणम्।स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम्॥ ४२तामेवमुक्त्वा राजन्तीं सीतां साक्षादिव श्रियम्।आजगाम महावेगो हनूमान्यत्र राघवः॥ ४३इति श्रीरामायणे युद्धकाण्डे एकोत्तरशततमः सर्गः ॥ १०१
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved