॥ ॐ श्री गणपतये नमः ॥

१०२ सर्गः
स उवाच महाप्रज्ञमभिगम्य प्लवंगमः।रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम्॥ १यन्निमित्तोऽयमारम्भः कर्मणां च फलोदयः।तां देवीं शोकसंतप्तां मैथिलीं द्रष्टुमर्हसि॥ २सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा।मैथिली विजयं श्रुत्वा तव हर्षमुपागमत्॥ ३पूर्वकात्प्रत्ययाच्चाहमुक्तो विश्वस्तया तया।भर्तारं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम्॥ ४एवमुक्तो हनुमता रामो धर्मभृतां वरः।अगच्छत्सहसा ध्यानमासीद्बाष्पपरिप्लुतः॥ ५दीर्घमुष्णं च निश्वस्य मेदिनीमवलोकयन्।उवाच मेघसंकाशं विभीषणमुपस्थितम्॥ ६दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम्।इह सीतां शिरःस्नातामुपस्थापय माचिरम्॥ ७एवमुक्तस्तु रामेण त्वरमाणो विभीषणः।प्रविश्यान्तःपुरं सीतां स्त्रीभिः स्वाभिरचोदयत्॥ ८दिव्याङ्गरागा वैदेही दिव्याभरणभूषिता।यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति॥ ९एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम्।अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप॥ १०तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः।यथाह रामो भर्ता ते तत्तथा कर्तुमर्हसि॥ ११तस्य तद्वचनं श्रुत्वा मैथिली भर्तृदेवता।भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत॥ १२ततः सीतां शिरःस्नातां युवतीभिरलंकृताम्।महार्हाभरणोपेतां महार्हाम्बरधारिणीम्॥ १३आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम्।रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः॥ १४सोऽभिगम्य महात्मानं ज्ञात्वाभिध्यानमास्थितम्।प्रणतश्च प्रहृष्टश्च प्राप्तां सीतां न्यवेदयत्॥ १५तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम्।हर्षो दैन्यं च रोषश्च त्रयं राघवमाविशत्॥ १६ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन्।विभीषणमिदं वाक्यमहृष्टो राघवोऽब्रवीत्॥ १७राक्षसाधिपते सौम्य नित्यं मद्विजये रत।वैदेही संनिकर्षं मे शीघ्रं समुपगच्छतु॥ १८स तद्वचनमाज्ञाय राघवस्य विभीषणः।तूर्णमुत्सारणे यत्नं कारयामास सर्वतः॥ १९कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः।उत्सारयन्तः पुरुषाः समन्तात्परिचक्रमुः॥ २०ऋक्षाणां वानराणां च राक्षसानां च सर्वतः।वृन्दान्युत्सार्यमाणानि दूरमुत्ससृजुस्ततः॥ २१तेषामुत्सार्यमाणानां सर्वेषां ध्वनिरुत्थितः।वायुनोद्वर्तमानस्य सागरस्येव निस्वनः॥ २२उत्सार्यमाणांस्तान्दृष्ट्वा समन्ताज्जातसंभ्रमान्।दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः॥ २३संरब्धश्चाब्रवीद्रामश्चक्षुषा प्रदहन्निव।विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः॥ २४किमर्थं मामनादृत्य कृश्यतेऽयं त्वया जनः।निवर्तयैनमुद्योगं जनोऽयं स्वजनो मम॥ २५न गृहाणि न वस्त्राणि न प्राकारास्तिरस्क्रियाः।नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियः॥ २६व्यसनेषु न कृच्छ्रेषु न युद्धे न स्वयंवरे।न क्रतौ नो विवाहे च दर्शनं दुष्यते स्त्रियः॥ २७सैषा युद्धगता चैव कृच्छ्रे महति च स्थिता।दर्शनेऽस्या न दोषः स्यान्मत्समीपे विशेषतः॥ २८तदानय समीपं मे शीघ्रमेनां विभीषण।सीता पश्यतु मामेषा सुहृद्गणवृतं स्थितम्॥ २९एवमुक्तस्तु रामेण सविमर्शो विभीषणः।रामस्योपानयत्सीतां संनिकर्षं विनीतवत्॥ ३०ततो लक्ष्मणसुग्रीवौ हनूमांश्च प्लवंगमः।निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम्॥ ३१कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः।अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम्॥ ३२लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली।विभीषणेनानुगता भर्तारं साभ्यवर्तत॥ ३३सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि।रुरोदासाद्य भर्तारमार्यपुत्रेति भाषिणी॥ ३४विस्मयाच्च प्रहर्षाच्च स्नेहाच्च परिदेवता।उदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना॥ ३५अथ समपनुदन्मनःक्लमं सासुचिरमदृष्टमुदीक्ष्य वै प्रियस्य।वदनमुदितपूर्णचन्द्रकान्तंविमलशशाङ्कनिभानना तदासीत्॥ ३६इति श्रीरामायणे युद्धकाण्डे द्व्यधिकशततमः सर्गः ॥ १०२
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved