१०६ सर्गः
एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम्।अङ्केनादाय वैदेहीमुत्पपात विभावसुः॥ १तरुणादित्यसंकाशां तप्तकाञ्चनभूषणाम्।रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम्॥ २अक्लिष्टमाल्याभरणां तथा रूपां मनस्विनीम्।ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः॥ ३अब्रवीच्च तदा रामं साक्षी लोकस्य पावकः।एषा ते राम वैदेही पापमस्या न विद्यते॥ ४नैव वाचा न मनसा नानुध्यानान्न चक्षुषा।सुवृत्ता वृत्तशौण्डीरा न त्वामतिचचार ह॥ ५रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा।त्वया विरहिता दीना विवशा निर्जनाद्वनात्॥ ६रुद्धा चान्तःपुरे गुप्ता त्वक्चित्ता त्वत्परायणा।रक्षिता राक्षसी संघैर्विकृतैर्घोरदर्शनैः॥ ७प्रलोभ्यमाना विविधं भर्त्स्यमाना च मैथिली।नाचिन्तयत तद्रक्षस्त्वद्गतेनान्तरात्मना॥ ८विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव।न किंचिदभिधातव्यमहमाज्ञापयामि ते॥ ९एवमुक्तो महातेजा धृतिमान्दृढविक्रमः।अब्रवीत्त्रिदशश्रेष्ठं रामो धर्मभृतां वरः॥ १०अवश्यं त्रिषु लोकेषु सीता पावनमर्हति।दीर्घकालोषिता चेयं रावणान्तःपुरे शुभा॥ ११बालिशः खलु कामात्मा रामो दशरथात्मजः।इति वक्ष्यन्ति मां सन्तो जानकीमविशोध्य हि॥ १२अनन्यहृदयां भक्तां मच्चित्तपरिरक्षणीम्।अहमप्यवगच्छामि मैथिलीं जनकात्मजाम्॥ १३प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः।उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम्॥ १४इमामपि विशालाक्षीं रक्षितां स्वेन तेजसा।रावणो नातिवर्तेत वेलामिव महोदधिः॥ १५न हि शक्तः स दुष्टात्मा मनसापि हि मैथिलीम्।प्रधर्षयितुमप्राप्तां दीप्तामग्निशिखामिव॥ १६नेयमर्हति चैश्वर्यं रावणान्तःपुरे शुभा।अनन्या हि मया सीतां भास्करेण प्रभा यथा॥ १७विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा।न हि हातुमियं शक्या कीर्तिरात्मवता यथा॥ १८अवश्यं च मया कार्यं सर्वेषां वो वचो हितम्।स्निग्धानां लोकमान्यानामेवं च ब्रुवतां हितम्॥ १९इतीदमुक्त्वा वचनं महाबलैःप्रशस्यमानः स्वकृतेन कर्मणा।समेत्य रामः प्रियया महाबलःसुखं सुखार्होऽनुबभूव राघवः॥ २०इति श्रीरामायणे युद्धकाण्डे षडधिकशततमः सर्गः ॥ १०६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved