१०७ सर्गः
एतच्छ्रुत्वा शुभं वाक्यं राघवेण सुभाषितम्।इदं शुभतरं वाक्यं व्याजहार महेश्वरः॥ १पुष्कराक्ष महाबाहो महावक्षः परंतप।दिष्ट्या कृतमिदं कर्म त्वया शस्त्रभृतां वर॥ २दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः।अपावृत्तं त्वया संख्ये राम रावणजं भयम्॥ ३आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम्।कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम्॥ ४प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम्।इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल॥ ५इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः।ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि॥ ६एष राजा विमानस्थः पिता दशरथस्तव।काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः॥ ७इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः।लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय॥ ८महादेववचः श्रुत्वा काकुत्स्थः सहलक्ष्मणः।विमानशिखरस्थस्य प्रणाममकरोत्पितुः॥ ९दीप्यमानं स्वयां लक्ष्म्या विरजोऽम्बरधारिणम्।लक्ष्मणेन सह भ्रात्रा ददर्श पितरं प्रभुः॥ १०हर्षेण महताविष्टो विमानस्थो महीपतिः।प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा॥ ११आरोप्याङ्कं महाबाहुर्वरासनगतः प्रभुः।बाहुभ्यां संपरिष्वज्य ततो वाक्यं समाददे॥ १२न मे स्वर्गो बहुमतः संमानश्च सुरर्षिभिः।त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते॥ १३कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर।तव प्रव्राजनार्थानि स्थितानि हृदये मम॥ १४त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम्।अद्य दुःखाद्विमुक्तोऽस्मि नीहारादिव भास्करः॥ १५तारितोऽहं त्वया पुत्र सुपुत्रेण महात्मना।अष्टावक्रेण धर्मात्मा तारितो ब्राह्मणो यथा॥ १६इदानीं च विजानामि यथा सौम्य सुरेश्वरैः।वधार्थं रावणस्येह विहितं पुरुषोत्तमम्॥ १७सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम्।वनान्निवृत्तं संहृष्टा द्रक्ष्यते शत्रुसूदन॥ १८सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम्।जलार्द्रमभिषिक्तं च द्रक्ष्यन्ति वसुधाधिपम्॥ १९अनुरक्तेन बलिना शुचिना धर्मचारिणा।इच्छेयं त्वामहं द्रष्टुं भरतेन समागतम्॥ २०चतुर्दशसमाः सौम्य वने निर्यापितास्त्वया।वसता सीतया सार्धं लक्ष्मणेन च धीमता॥ २१निवृत्तवनवासोऽसि प्रतिज्ञा सफला कृता।रावणं च रणे हत्वा देवास्ते परितोषिताः॥ २२कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन।भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि॥ २३इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत्।कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च॥ २४सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया।स शापः कैकयीं घोरः सपुत्रां न स्पृशेत्प्रभो॥ २५स तथेति महाराजो राममुक्त्वा कृताञ्जलिम्।लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह॥ २६रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया।कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते॥ २७धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि।रामे प्रसन्ने स्वर्गं च महिमानं तथैव च॥ २८रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन।रामः सर्वस्य लोकस्य शुभेष्वभिरतः सदा॥ २९एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयः।अभिगम्य महात्मानमर्चन्ति पुरुषोत्तमम्॥ ३०एतत्तदुक्तमव्यक्तमक्षरं ब्रह्मनिर्मितम्।देवानां हृदयं सौम्य गुह्यं रामः परंतपः॥ ३१अवाप्तं धर्मचरणं यशश्च विपुलं त्वया।रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया॥ ३२स तथोक्त्वा महाबाहुर्लक्ष्मणं प्राञ्जलिं स्थितम्।उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम्॥ ३३कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति।रामेण त्वद्विशुद्ध्यर्थं कृतमेतद्धितैषिणा॥ ३४न त्वं सुभ्रु समाधेया पतिशुश्रूवणं प्रति।अवश्यं तु मया वाच्यमेष ते दैवतं परम्॥ ३५इति प्रतिसमादिश्य पुत्रौ सीतां तथा स्नुषाम्।इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन्॥ ३६इति श्रीरामायणे युद्धकाण्डे सप्ताधिकशततमः सर्गः ॥ १०७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved