॥ ॐ श्री गणपतये नमः ॥

११३ सर्गः
अयोध्यां तु समालोक्य चिन्तयामास राघवः।चिन्तयित्वा ततो दृष्टिं वानरेषु न्यपातयत्॥ १प्रियकामः प्रियं रामस्ततस्त्वरितविक्रमम्।उवाच धीमांस्तेजस्वी हनूमन्तं प्लवंगमम्॥ २अयोध्यां त्वरितो गच्छ क्षिप्रं त्वं प्लवगोत्तम।जानीहि कच्चित्कुशली जनो नृपतिमन्दिरे॥ ३शृङ्गवेरपुरं प्राप्य गुहं गहनगोचरम्।निषादाधिपतिं ब्रूहि कुशलं वचनान्मम॥ ४श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम्।भविष्यति गुहः प्रीतः स ममात्मसमः सखा॥ ५अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च।निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः॥ ६भरतस्तु त्वया वाच्यः कुशलं वचनान्मम।सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम्॥ ७हरणं चापि वैदेह्या रावणेन बलीयसा।सुग्रीवेण च संवादं वालिनश्च वधं रणे॥ ८मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया।लङ्घयित्वा महातोयमापगापतिमव्ययम्॥ ९उपयानं समुद्रस्य सागरस्य च दर्शनम्।यथा च कारितः सेतू रावणश्च यथा हतः॥ १०वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च।महादेवप्रसादाच्च पित्रा मम समागमम्॥ ११जित्वा शत्रुगणान्रामः प्राप्य चानुत्तमं यशः।उपयाति समृद्धार्थः सह मित्रैर्महाबलः॥ १२एतच्छ्रुत्वा यमाकारं भजते भरतस्ततः।स च ते वेदितव्यः स्यात्सर्वं यच्चापि मां प्रति॥ १३ज्ञेयाः सर्वे च वृत्तान्ता भरतस्येङ्गितानि च।तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषणेन च॥ १४सर्वकामसमृद्धं हि हस्त्यश्वरथसंकुलम्।पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः॥ १५संगत्या भरतः श्रीमान्राज्येनार्थी स्वयं भवेत्।प्रशास्तु वसुधां सर्वामखिलां रघुनन्दनः॥ १६तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर।यावन्न दूरं याताः स्मः क्षिप्रमागन्तुमर्हसि॥ १७इति प्रतिसमादिष्टो हनूमान्मारुतात्मजः।मानुषं धारयन्रूपमयोध्यां त्वरितो ययौ॥ १८लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम्।गङ्गायमुनयोर्भीमं संनिपातमतीत्य च॥ १९शृङ्गवेरपुरं प्राप्य गुहमासाद्य वीर्यवान्।स वाचा शुभया हृष्टो हनूमानिदमब्रवीत्॥ २०सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः।ससीतः सह सौमित्रिः स त्वां कुशलमब्रवीत्॥ २१पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः।भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम्॥ २२एवमुक्त्वा महातेजाः संप्रहृष्टतनूरुहः।उत्पपात महावेगो वेगवानविचारयन्॥ २३सोऽपश्यद्रामतीर्थं च नदीं वालुकिनीं तथा।गोमतीं तां च सोऽपश्यद्भीमं सालवनं तथा॥ २४स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः।आससाद द्रुमान्फुल्लान्नन्दिग्रामसमीपजान्॥ २५क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम्।ददर्श भरतं दीनं कृशमाश्रमवासिनम्॥ २६जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम्।फलमूलाशिनं दान्तं तापसं धर्मचारिणम्॥ २७समुन्नतजटाभारं वल्कलाजिनवाससं।नियतं भावितात्मानं ब्रह्मर्षिसमतेजसं॥ २८पादुके ते पुरस्कृत्य शासन्तं वै वसुंधराम्।चतुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात्॥ २९उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः।बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः॥ ३०न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम्।परिमोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलाः॥ ३१तं धर्ममिव धर्मज्ञं देववन्तमिवापरम्।उवाच प्राञ्जलिर्वाक्यं हनूमान्मारुतात्मजः॥ ३२वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम्।अनुशोचसि काकुत्स्थं स त्वा कुशलमब्रवीत्॥ ३३प्रियमाख्यामि ते देव शोकं त्यक्ष्यसि दारुणम्।अस्मिन्मुहूर्ते भ्रात्रा त्वं रामेण सह संगतः॥ ३४निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम्।उपयाति समृद्धार्थः सह मित्रैर्महाबलैः॥ ३५लक्ष्मणश्च महातेजा वैदेही च यशस्विनी।सीता समग्रा रामेण महेन्द्रेण शची यथा॥ ३६एवमुक्तो हनुमता भरतः कैकयीसुतः।पपात सहसा हृष्टो हर्षान्मोहं जगाम ह॥ ३७ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः।हनूमन्तमुवाचेदं भरतः प्रियवादिनम्॥ ३८अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य संभ्रमात्।सिषेच भरतः श्रीमान्विपुलैरश्रुबिन्दुभिः॥ ३९देवो वा मानुषो वा त्वमनुक्रोशादिहागतः।प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम्॥ ४०गवां शतसहस्रं च ग्रामाणां च शतं परम्।सकुण्डलाः शुभाचारा भार्याः कन्याश्च षोडश॥ ४१हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः।सर्वाभरणसंपन्ना संपन्नाः कुलजातिभिः॥ ४२निशम्य रामागमनं नृपात्मजःकपिप्रवीरस्य तदाद्भुतोपमम्।प्रहर्षितो रामदिदृक्षयाभवत्पुनश्च हर्षादिदमब्रवीद्वचः॥ ४३इति श्रीरामायणे युद्धकाण्डे त्रयोदशाधिकशततमः सर्गः ॥ ११३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved