॥ ॐ श्री गणपतये नमः ॥

११४ सर्गः
बहूनि नाम वर्षाणि गतस्य सुमहद्वनम्।शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम्॥ १कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे।एति जीवन्तमानन्दो नरं वर्षशतादपि॥ २राघवस्य हरीणां च कथमासीत्समागमः।कस्मिन्देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः॥ ३स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः।आचचक्षे ततः सर्वं रामस्य चरितं वने॥ ४यथा प्रव्रजितो रामो मातुर्दत्ते वरे तव।यथा च पुत्रशोकेन राजा दशरथो मृतः॥ ५यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात्प्रभो।त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम्॥ ६चित्रकूटं गिरिं गत्वा राज्येनामित्रकर्शनः।निमन्त्रितस्त्वया भ्राता धर्ममाचरिता सताम्॥ ७स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम्।आर्यस्य पादुके गृह्य यथासि पुनरागतः॥ ८सर्वमेतन्महाबाहो यथावद्विदितं तव।त्वयि प्रतिप्रयाते तु यद्वृत्तं तन्निबोध मे॥ ९अपयाते त्वयि तदा समुद्भ्रान्तमृगद्विजम्।प्रविवेशाथ विजनं सुमहद्दण्डकावनम्॥ १०तेषां पुरस्ताद्बलवान्गच्छतां गहने वने।विनदन्सुमहानादं विराधः प्रत्यदृश्यत॥ ११तमुत्क्षिप्य महानादमूर्ध्वबाहुमधोमुखम्।निखाते प्रक्षिपन्ति स्म नदन्तमिव कुञ्जरम्॥ १२तत्कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ।सायाह्ने शरभङ्गस्य रम्यमाश्रममीयतुः॥ १३शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः।अभिवाद्य मुनीन्सर्वाञ्जनस्थानमुपागमत्॥ १४चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्।हतानि वसता तत्र राघवेण महात्मना॥ १५ततः पश्चाच्छूर्पणखा रामपार्श्वमुपागता।ततो रामेण संदिष्टो लक्ष्मणः सहसोत्थितः॥ १६प्रगृह्य खड्गं चिच्छेद कर्णनासे महाबलः।ततस्तेनार्दिता बाला रावणं समुपागता॥ १७रावणानुचरो घोरो मारीचो नाम राक्षसः।लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः॥ १८सा राममब्रवीद्दृष्ट्वा वैदेही गृह्यतामिति।अहो मनोहरः कान्त आश्रमे नो भविष्यति॥ १९ततो रामो धनुष्पाणिर्धावन्तमनुधावति।स तं जघान धावन्तं शरेणानतपर्वणा॥ २०अथ सौम्या दशग्रीवो मृगं याते तु राघवे।लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा।जग्राह तरसा सीतां ग्रहः खे रोहिणीमिव॥ २१त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुषम्।प्रगृह्य सीतां सहसा जगामाशु स रावणः॥ २२ततस्त्वद्भुतसंकाशाः स्थिताः पर्वतमूर्धनि।सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः।ददृशुर्विस्मितास्तत्र रावणं राक्षसाधिपम्॥ २३प्रविवेर्श तदा लङ्कां रावणो लोकरावणः॥ २४तां सुवर्णपरिक्रान्ते शुभे महति वेश्मनि।प्रवेश्य मैथिलीं वाक्यैः सान्त्वयामास रावणः॥ २५निवर्तमानः काकुत्स्थो दृष्ट्वा गृध्रं प्रविव्यथे॥ २६गृध्रं हतं तदा दग्ध्वा रामः प्रियसखं पितुः।गोदावरीमनुचरन्वनोद्देशांश्च पुष्पितान्।आसेदतुर्महारण्ये कबन्धं नाम राक्षसं॥ २७ततः कबन्धवचनाद्रामः सत्यपराक्रमः।ऋश्यमूकं गिरिं गत्वा सुग्रीवेण समागतः॥ २८तयोः समागमः पूर्वं प्रीत्या हार्दो व्यजायत।इतरेतर संवादात्प्रगाढः प्रणयस्तयोः॥ २९रामः स्वबाहुवीर्येण स्वराज्यं प्रत्यपादयत्।वालिनं समरे हत्वा महाकायं महाबलम्॥ ३०सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः।रामाय प्रतिजानीते राजपुत्र्यास्तु मार्गणम्॥ ३१आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना।दशकोट्यः प्लवंगानां सर्वाः प्रस्थापिता दिशः॥ ३२तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे।भृशं शोकाभितप्तानां महान्कालोऽत्यवर्तत॥ ३३भ्राता तु गृध्रराजस्य संपातिर्नाम वीर्यवान्।समाख्याति स्म वसतिं सीताया रावणालये॥ ३४सोऽहं दुःखपरीतानां दुःखं तज्ज्ञातिनां नुदन्।आत्मवीर्यं समास्थाय योजनानां शतं प्लुतः॥ ३५तत्राहमेकामद्राक्षमशोकवनिकां गताम्।कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम्॥ ३६तया समेत्य विधिवत्पृष्ट्वा सर्वमनिन्दिताम्।अभिज्ञानं मणिं लब्ध्वा चरितार्थोऽहमागतः॥ ३७मया च पुनरागम्य रामस्याक्लिष्टकर्मणः।अभिज्ञानं मया दत्तमर्चिष्मान्स महामणिः॥ ३८श्रुत्वा तां मैथिलीं हृष्टस्त्वाशशंसे स जीवितम्।जीवितान्तमनुप्राप्तः पीत्वामृतमिवातुरः॥ ३९उद्योजयिष्यन्नुद्योगं दध्रे लङ्कावधे मनः।जिघांसुरिव लोकांस्ते सर्वाँल्लोकान्विभावसुः॥ ४०ततः समुद्रमासाद्य नलं सेतुमकारयत्।अतरत्कपिवीराणां वाहिनी तेन सेतुना॥ ४१प्रहस्तमवधीन्नीलः कुम्भकर्णं तु राघवः।लक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम्॥ ४२स शक्रेण समागम्य यमेन वरुणेन च।सुरर्षिभिश्च काकुत्स्थो वराँल्लेभे परंतपः॥ ४३स तु दत्तवरः प्रीत्या वानरैश्च समागतः।पुष्पकेण विमानेन किष्किन्धामभ्युपागमत्॥ ४४तं गङ्गां पुनरासाद्य वसन्तं मुनिसंनिधौ।अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि॥ ४५ततः स सत्यं हनुमद्वचो महन्निशम्य हृष्टो भरतः कृताञ्जलिः।उवाच वाणीं मनसः प्रहर्षिणीचिरस्य पूर्णः खलु मे मनोरथः॥ ४६इति श्रीरामायणे युद्धकाण्डे चतुर्दशाधिकशततमः सर्गः ॥ ११४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved