४ सर्गः
श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः।पूर्वमासीत्तु लङ्कायां रक्षसामिति संभवः॥ १ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम्।अगस्त्यं तं मुहुर्दृष्ट्वा स्मयमानोऽभ्यभाषत॥ २भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम्।इतीदं भवतः श्रुत्वा विस्मयो जनितो मम॥ ३पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम्।इदानीमन्यतश्चापि संभवः कीर्तितस्त्वया॥ ४रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि।रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः॥ ५क एषां पूर्वको ब्रह्मन्किंनामा किंतपोबलः।अपराधं च कं प्राप्य विष्णुना द्राविताः पुरा॥ ६एतद्विस्तरतः सर्वं कथयस्व ममानघ।कौतूहलं कृतं मह्यं नुद भानुर्यथा तमः॥ ७राघवस्य तु तच्छ्रुत्वा संस्कारालंकृतं वचः।ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम्॥ ८प्रजापतिः पुरा सृष्ट्वा अपः सलिलसंभवः।तासां गोपायने सत्त्वानसृजत्पद्मसंभवः॥ ९ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः।किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः॥ १०प्रजापतिस्तु तान्याह सत्त्वानि प्रहसन्निव।आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः॥ ११रक्षाम इति तत्रान्यैर्यक्षामेति तथापरैः।भुङ्क्षिताभुङ्क्षितैरुक्तस्ततस्तानाह भूतकृत्॥ १२रक्षाम इति यैरुक्तं राक्षसास्ते भवन्तु वः।यक्षाम इति यैरुक्तं ते वै यक्षा भवन्तु वः॥ १३तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसर्षभौ।मधुकैटभसंकाशौ बभूवतुररिंदमौ॥ १४प्रहेतिर्धार्मिकस्तत्र न दारान्सोऽभिकाङ्क्षति।हेतिर्दारक्रियार्थं तु यत्नं परमथाकरोत्॥ १५स कालभगिनीं कन्यां भयां नाम भयावहाम्।उदावहदमेयात्मा स्वयमेव महामतिः॥ १६स तस्यां जनयामास हेती राक्षसपुंगवः।पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम्॥ १७विद्युत्केशो हेतिपुत्रः प्रदीप्ताग्निसमप्रभः।व्यवर्धत महातेजास्तोयमध्य इवाम्बुजम्॥ १८स यदा यौवनं भद्रमनुप्राप्तो निशाचरः।ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता॥ १९संध्यादुहितरं सोऽथ संध्यातुल्यां प्रभावतः।वरयामास पुत्रार्थं हेती राक्षसपुंगवः॥ २०अवश्यमेव दातव्या परस्मै सेति संध्यया।चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव॥ २१संध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः।रमते स तया सार्धं पौलोम्या मघवानिव॥ २२केनचित्त्वथ कालेन राम सालकटंकटा।विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात्॥ २३ततः सा राक्षसी गर्भं घनगर्भसमप्रभम्।प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम्॥ २४तमुत्सृज्य तु सा गर्भं विद्युत्केशाद्रतार्थिनी।रेमे सा पतिना सार्धं विस्मृत्य सुतमात्मजम्॥ २५तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः।पाणिमास्ये समाधाय रुरोद घनराडिव॥ २६अथोपरिष्टाद्गच्छन्वै वृषभस्थो हरः प्रभुः।अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम्॥ २७कारुण्यभावात्पार्वत्या भवस्त्रिपुरहा ततः।तं राक्षसात्मजं चक्रे मातुरेव वयःसमम्॥ २८अमरं चैव तं कृत्वा महादेवोऽक्षयोऽव्ययः।पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया॥ २९उमयापि वरो दत्तो राक्षसीनां नृपात्मज।सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च।सद्य एव वयःप्राप्तिर्मातुरेव वयः समम्॥ ३०ततः सुकेशो वरदानगर्वितःश्रियं प्रभोः प्राप्य हरस्य पार्श्वतः।चचार सर्वत्र महामतिः खगःखगं पुरं प्राप्य पुरंदरो यथा॥ ३१इति श्रीरामायणे उत्तरकाण्डे चतुर्थः सर्गः ॥ ४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved