॥ ॐ श्री गणपतये नमः ॥

६ सर्गः
तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः।भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम्॥ १ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम्।ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः॥ २सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः।प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधन॥ ३शरण्यान्यशरण्यानि आश्रमाणि कृतानि नः।स्वर्गाच्च च्यावितः शक्रः स्वर्गे क्रीडन्ति शक्रवत्॥ ४अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम्।अहं यमोऽहं वरुणश्चन्द्रोऽहं रविरप्यहम्॥ ५इति ते राक्षसा देव वरदानेन दर्पिताः।बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः॥ ६तन्नो देवभयार्तानामभयं दातुमर्हसि।अशिवं वपुरास्थाय जहि दैवतकण्टकान्॥ ७इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः।सुकेशं प्रति सापेक्ष आह देवगणान्प्रभुः॥ ८नाहं तान्निहनिष्यामि अवध्या मम तेऽसुराः।किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति॥ ९एवमेव समुद्योगं पुरस्कृत्य सुरर्षभाः।गच्छन्तु शरणं विष्णुं हनिष्यति स तान्प्रभुः॥ १०ततस्ते जयशब्देन प्रतिनन्द्य महेश्वरम्।विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः॥ ११शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च।ऊचुः संभ्रान्तवद्वाक्यं सुकेशतनयार्दिताः॥ १२सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसंनिभैः।आक्रम्य वरदानेन स्थानान्यपहृतानि नः॥ १३लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता।तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः॥ १४स त्वमस्मत्प्रियार्थं तु जहि तान्मधुसूदन।चक्रकृत्तास्यकमलान्निवेदय यमाय वै॥ १५भयेष्वभयदोऽस्माकं नान्योऽस्ति भवता समः।नुद त्वं नो भयं देव नीहारमिव भास्करः॥ १६इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः।अभयं भयदोऽरीणां दत्त्वा देवानुवाच ह॥ १७सुकेशं राक्षसं जाने ईशानवरदर्पितम्।तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान्॥ १८तानहं समतिक्रान्तमर्यादान्राक्षसाधमान्।सूदयिष्यामि संग्रामे सुरा भवत विज्वराः॥ १९इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना।यथा वासं ययुर्हृष्टाः प्रशमन्तो जनार्दनम्॥ २०विबुधानां समुद्योगं माल्यवान्स निशाचरः।श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत्॥ २१अमरा ऋषयश्चैव संहत्य किल शंकरम्।अस्मद्वधं परीप्सन्त इदमूचुस्त्रिलोचनम्॥ २२सुकेशतनया देव वरदानबलोद्धताः।बाधन्तेऽस्मान्समुद्युक्ता घोररूपाः पदे पदे॥ २३राक्षसैरभिभूताः स्म न शक्ताः स्म उमापते।स्वेषु वेश्मसु संस्थातुं भयात्तेषां दुरात्मनाम्॥ २४तदस्माकं हितार्थे त्वं जहि तांस्तांस्त्रिलोचन।राक्षसान्हुंकृतेनैव दह प्रदहतां वर॥ २५इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः।शिरः करं च धुन्वान इदं वचनमब्रवीत्॥ २६अवध्या मम ते देवाः सुकेशतनया रणे।मन्त्रं तु वः प्रदास्यामि यो वै तान्निहनिष्यति॥ २७यः स चक्रगदापाणिः पीतवासा जनार्दनः।हनिष्यति स तान्युद्धे शरणं तं प्रपद्यथ॥ २८हरान्नावाप्य ते कामं कामारिमभिवाद्य च।नारायणालयं प्राप्तास्तस्मै सर्वं न्यवेदयन्॥ २९ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः।सुरारीन्सूदयिष्यामि सुरा भवत विज्वराः॥ ३०देवानां भयभीतानां हरिणा राक्षसर्षभौ।प्रतिज्ञातो वधोऽस्माकं तच्चिन्तयथ यत्क्षमम्॥ ३१हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम्।दुःखं नारायणं जेतुं यो नो हन्तुमभीप्सति॥ ३२ततः सुमाली माली च श्रुत्वा माल्यवतो वचः।ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम्॥ ३३स्वधीतं दत्तमिष्टं च ऐश्वर्यं परिपालितम्।आयुर्निरामयं प्राप्तं स्वधर्मः स्थापितश्च नः॥ ३४देवसागरमक्षोभ्यं शस्त्रौघैः प्रविगाह्य च।जिता देवा रणे नित्यं न नो मृत्युकृतं भयम्॥ ३५नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा।अस्माकं प्रमुखे स्थातुं सर्व एव हि बिभ्यति॥ ३६विष्णोर्दोषश्च नास्त्यत्र कारणं राक्षसेश्वर।देवानामेव दोषेण विष्णोः प्रचलितं मनः॥ ३७तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः।देवानेव जिघांसामो येभ्यो दोषः समुत्थितः॥ ३८इति माली सुमाली च माल्यवानग्रजः प्रभुः।उद्योगं घोषयित्वाथ राक्षसाः सर्व एव ते।युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव॥ ३९स्यन्दनैर्वारणेन्द्रैश्च हयैश्च गिरिसंनिभैः।खरैर्गोभिरथोष्ट्रैश्च शिंशुमारैर्भुजंगमैः॥ ४०मकरैः कच्छपैर्मीनैर्विहंगैर्गरुडोपमैः।सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि॥ ४१त्यक्त्वा लङ्कां ततः सर्वे राक्षसा बलगर्विताः।प्रयाता देवलोकाय योद्धुं दैवतशत्रवः॥ ४२लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ।भूतानि भयदर्शीनि विमनस्कानि सर्वशः॥ ४३भौमास्तथान्तरिक्षाश्च कालाज्ञप्ता भयावहाः।उत्पाता राक्षसेन्द्राणामभावायोत्थिता द्रुतम्॥ ४४अस्थीनि मेघा वर्षन्ति उष्णं शोणितमेव च।वेलां समुद्रोऽप्युत्क्रान्तश्चलन्ते चाचलोत्तमाः॥ ४५अट्टहासान्विमुञ्चन्तो घननादसमस्वनान्।भूताः परिपतन्ति स्म नृत्यमानाः सहस्रशः॥ ४६गृध्रचक्रं महच्चापि ज्वलनोद्गारिभिर्मुखैः।राक्षसानामुपरि वै भ्रमते कालचक्रवत्॥ ४७तानचिन्त्य महोत्पातान्राक्षसा बलगर्विताः।यन्त्येव न निवर्तन्ते मृत्युपाशावपाशिताः॥ ४८माल्यवांश्च सुमाली च माली च रजनीचराः।आसन्पुरःसरास्तेषां क्रतूनामिव पावकाः॥ ४९माल्यवन्तं तु ते सर्वे माल्यवन्तमिवाचलम्।निशाचरा आश्रयन्ते धातारमिव देहिनः॥ ५०तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम्।जयेप्सया देवलोकं ययौ माली वशे स्थितम्॥ ५१राक्षसानां समुद्योगं तं तु नारायणः प्रभुः।देवदूतादुपश्रुत्य दध्रे युद्धे ततो मनः॥ ५२स देवसिद्धर्षिमहोरगैश्चगन्धर्वमुख्याप्सरसोपगीतः।समाससादामरशत्रुसैन्यंचक्रासिसीरप्रवरादिधारी॥ ५३सुपर्णपक्षानिलनुन्नपक्षंभ्रमत्पताकं प्रविकीर्णशस्त्रम्।चचाल तद्राक्षसराजसैन्यंचलोपलो नील इवाचलेन्द्रः॥ ५४ततः शितैः शोणितमांसरूषितैर्युगान्तवैश्वानरतुल्यविग्रहैः।निशाचराः संपरिवार्य माधवंवरायुधैर्निर्बिभिदुः सहस्रशः॥ ५५इति श्रीरामायणे उत्तरकाण्डे षष्ठः सर्गः ॥ ६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved