९ सर्गः
कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः।रसातलान्मर्त्यलोकं सर्वं वै विचचार ह॥ १नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः।कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम्।अथापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम्॥ २तं दृष्ट्वामरसंकाशं गच्छन्तं पावकोपमम्।अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः॥ ३पुत्रि प्रदानकालोऽयं यौवनं तेऽतिवर्तते।त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः॥ ४त्वं हि सर्वगुणोपेता श्रीः सपद्मेव पुत्रिके।प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे॥ ५कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम्।न ज्ञायते च कः कन्यां वरयेदिति पुत्रिके॥ ६मातुः कुलं पितृकुलं यत्र चैव प्रदीयते।कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति॥ ७सा त्वं मुनिवरश्रेष्ठं प्रजापतिकुलोद्भवम्।गच्छ विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम्॥ ८ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः।तेजसा भास्करसमा यादृशोऽयं धनेश्वरः॥ ९एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः।अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः॥ १०सा तु तां दारुणां वेलामचिन्त्य पितृगौरवात्।उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता॥ ११स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम्।अब्रवीत्परमोदारो दीप्यमान इवौजसा॥ १२भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता।किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने॥ १३एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत्।आत्मप्रभावेन मुने ज्ञातुमर्हसि मे मतम्॥ १४किं तु विद्धि हि मां ब्रह्मञ्शासनात्पितुरागताम्।कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि॥ १५स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह।विज्ञातं ते मया भद्रे कारणं यन्मनोगतम्॥ १६दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता।शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि॥ १७दारुणान्दारुणाकारान्दारुणाभिजनप्रियान्।प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः॥ १८सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः।भगवन्नेदृशाः पुत्रास्त्वत्तोऽर्हा ब्रह्मयोनितः॥ १९अथाब्रवीन्मुनिस्तत्र पश्चिमो यस्तवात्मजः।मम वंशानुरूपश्च धर्मात्मा च भविष्यति॥ २०एवमुक्ता तु सा कन्या राम कालेन केनचित्।जनयामास बीभत्सं रक्षोरूपं सुदारुणम्॥ २१दशशीर्षं महादंष्ट्रं नीलाञ्जनचयोपमम्।ताम्रौष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम्॥ २२जातमात्रे ततस्तस्मिन्सज्वालकवलाः शिवाः।क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रिरे॥ २३ववर्ष रुधिरं देवो मेघाश्च खरनिस्वनाः।प्रबभौ न च खे सूर्यो महोल्काश्चापतन्भुवि॥ २४अथ नामाकरोत्तस्य पितामहसमः पिता।दशशीर्षः प्रसूतोऽयं दशग्रीवो भविष्यति॥ २५तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः।प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते॥ २६ततः शूर्पणखा नाम संजज्ञे विकृतानना।विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः॥ २७ते तु तत्र महारण्ये ववृधुः सुमहौजसः।तेषां क्रूरो दशग्रीवो लोकोद्वेगकरोऽभवत्॥ २८कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मसंश्रितान्।त्रैलोक्यं त्रासयन्दुष्टो भक्षयन्विचचार ह॥ २९विभीषणस्तु धर्मात्मा नित्यं धर्मपथे स्थितः।स्वाध्यायनियताहार उवास नियतेन्द्रियः॥ ३०अथ वित्तेश्वरो देवस्तत्र कालेन केनचित्।आगच्छत्पितरं द्रष्टुं पुष्पकेण महौजसं॥ ३१तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा।आस्थाय राक्षसीं बुद्धिं दशग्रीवमुवाच ह॥ ३२पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम्।भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम्॥ ३३दशग्रीव तथा यत्नं कुरुष्वामितविक्रम।यथा भवसि मे पुत्र शीघ्रं वैश्वरणोपमः॥ ३४मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान्।अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा॥ ३५सत्यं ते प्रतिजानामि तुल्यो भ्रात्राधिकोऽपि वा।भविष्याम्यचिरान्मातः संतापं त्यज हृद्गतम्॥ ३६ततः क्रोधेन तेनैव दशग्रीवः सहानुजः।प्राप्स्यामि तपसा काममिति कृत्वाध्यवस्य च।आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम्॥ ३७इति श्रीरामायणे उत्तरकाण्डे नवमः सर्गः ॥ ९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved