॥ ॐ श्री गणपतये नमः ॥

१० सर्गः
अथाब्रवीद्द्विजं रामः कथं ते भ्रातरो वने।कीदृशं तु तदा ब्रह्मंस्तपश्चेरुर्महाव्रताः॥ १अगस्त्यस्त्वब्रवीत्तत्र रामं प्रयत मानसं।तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन्॥ २कुम्भकर्णस्तदा यत्तो नित्यं धर्मपरायणः।तताप ग्रैष्मिके काले पञ्चस्वग्निष्ववस्थितः॥ ३वर्षे मेघोदकक्लिन्नो वीरासनमसेवत।नित्यं च शैशिरे काले जलमध्यप्रतिश्रयः॥ ४एवं वर्षसहस्राणि दश तस्यातिचक्रमुः।धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च॥ ५विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः।पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान्॥ ६समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः।पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः॥ ७पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत।तस्थौ चोर्ध्वशिरोबाहुः स्वाध्यायधृतमानसः॥ ८एवं विभीषणस्यापि गतानि नियतात्मनः।दशवर्षसहस्राणि स्वर्गस्थस्येव नन्दने॥ ९दशवर्षसहस्रं तु निराहारो दशाननः।पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः॥ १०एवं वर्षसहस्राणि नव तस्यातिचक्रमुः।शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम्॥ ११अथ वर्षसहस्रे तु दशमे दशमं शिरः।छेत्तुकामः स धर्मात्मा प्राप्तश्चात्र पितामहः॥ १२पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः।वत्स वत्स दशग्रीव प्रीतोऽस्मीत्यभ्यभाषत॥ १३शीघ्रं वरय धर्मज्ञ वरो यस्तेऽभिकाङ्क्षितः।किं ते कामं करोम्यद्य न वृथा ते परिश्रमः॥ १४ततोऽब्रवीद्दशग्रीवः प्रहृष्टेनान्तरात्मना।प्रणम्य शिरसा देवं हर्षगद्गदया गिरा॥ १५भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम्।नास्ति मृत्युसमः शत्रुरमरत्वमतो वृणे॥ १६सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम्।अवध्यः स्यां प्रजाध्यक्ष देवतानां च शाश्वतम्॥ १७न हि चिन्ता ममान्येषु प्राणिष्वमरपूजित।तृणभूता हि मे सर्वे प्राणिनो मानुषादयः॥ १८एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा।उवाच वचनं राम सह देवैः पितामहः॥ १९भविष्यत्येवमेवैतत्तव राक्षसपुंगव।शृणु चापि वचो भूयः प्रीतस्येह शुभं मम॥ २०हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ।पुनस्तानि भविष्यन्ति तथैव तव राक्षस॥ २१एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः।अग्नौ हुतानि शीर्षाणि यानि तान्युत्थितानि वै॥ २२एवमुक्त्वा तु तं राम दशग्रीवं प्रजापतिः।विभीषणमथोवाच वाक्यं लोकपितामहः॥ २३विभीषण त्वया वत्स धर्मसंहितबुद्धिना।परितुष्टोऽस्मि धर्मज्ञ वरं वरय सुव्रत॥ २४विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः।वृतः सर्वगुणैर्नित्यं चन्द्रमा इव रश्मिभिः॥ २५भगवन्कृतकृत्योऽहं यन्मे लोकगुरुः स्वयम्।प्रीतो यदि त्वं दातव्यं वरं मे शृणु सुव्रत॥ २६या या मे जायते बुद्धिर्येषु येष्वाश्रमेष्विह।सा सा भवतु धर्मिष्ठा तं तं धर्मं च पालये॥ २७एष मे परमोदार वरः परमको मतः।न हि धर्माभिरक्तानां लोके किंचन दुर्लभम्॥ २८अथ प्रजापतिः प्रीतो विभीषणमुवाच ह।धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति॥ २९यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्षण।नाधर्मे जायते बुद्धिरमरत्वं ददामि ते॥ ३०कुम्भकर्णाय तु वरं प्रयच्छन्तमरिंदम।प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयोऽब्रुवन्॥ ३१न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया।जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः॥ ३२नन्दनेऽप्सरसः सप्त महेन्द्रानुचरा दश।अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा॥ ३३वरव्याजेन मोहोऽस्मै दीयताममितप्रभ।लोकानां स्वस्ति चैव स्याद्भवेदस्य च संनतिः॥ ३४एवमुक्तः सुरैर्ब्रह्माचिन्तयत्पद्मसंभवः।चिन्तिता चोपतस्थेऽस्य पार्श्वं देवी सरस्वती॥ ३५प्राञ्जलिः सा तु पर्श्वस्था प्राह वाक्यं सरस्वती।इयमस्म्यागता देव किं कार्यं करवाण्यहम्॥ ३६प्रजापतिस्तु तां प्राप्तां प्राह वाक्यं सरस्वतीम्।वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता॥ ३७तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत्।कुम्भकर्ण महाबाहो वरं वरय यो मतः॥ ३८कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत्।स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम्॥ ३९एवमस्त्विति तं चोक्त्वा सह देवैः पितामहः।देवी सरस्वती चैव मुक्त्वा तं प्रययौ दिवम्॥ ४०कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः।कीदृशं किं न्विदं वाक्यं ममाद्य वदनाच्च्युतम्॥ ४१एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः।श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम्॥ ४२इति श्रीरामायणे उत्तरकाण्डे दशमः सर्गः ॥ १०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved