॥ ॐ श्री गणपतये नमः ॥

१८ सर्गः
प्रविष्टायां हुताशं तु वेदवत्यां स रावणः।पुष्पकं तत्समारुह्य परिचक्राम मेदिनीम्॥ १ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः।उशीरबीजमासाद्य ददर्श स तु राक्षसः॥ २संवर्तो नाम ब्रह्मर्षिर्भ्राता साक्षाद्बृहस्पतेः।याजयामास धर्मज्ञः सर्वैर्ब्रह्मगणैर्वृतः॥ ३दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम्।तां तां योनिं समापन्नास्तस्य धर्षणभीरवः॥ ४इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः।कृकलासो धनाध्यक्षो हंसो वै वरुणोऽभवत्॥ ५तं च राजानमासाद्य रावणो राक्षसाधिपः।प्राह युद्धं प्रयच्चेति निर्जितोऽस्मीति वा वद॥ ६ततो मरुत्तो नृपतिः को भवानित्युवाच तम्।अवहासं ततो मुक्त्वा राक्षसो वाक्यमब्रवीत्॥ ७अकुतूहलभावेन प्रीतोऽस्मि तव पार्थिव।धनदस्यानुजं यो मां नावगच्छसि रावणम्॥ ८त्रिषु लोकेषु कः सोऽस्ति यो न जानाति मे बलम्।भ्रातरं येन निर्जित्य विमानमिदमाहृतम्॥ ९ततो मरुत्तो नृपतिस्तं राक्षसमथाब्रवीत्।धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः॥ १०नाधर्मसहितं श्लाघ्यं न लोकप्रतिसंहितम्।कर्म दौरात्म्यकं कृत्वा श्लाघसे भ्रातृनिर्जयात्॥ ११किं त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम्।श्रुतपूर्वं हि न मया यादृशं भाषसे स्वयम्॥ १२ततः शरासनं गृह्य सायकांश्च स पार्थिवः।रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत्॥ १३सोऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः।श्रोतव्यं यदि मद्वाक्यं संप्रहारो न ते क्षमः॥ १४माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत्।दीक्षितस्य कुतो युद्धं क्रूरत्वं दीक्षिते कुतः॥ १५संशयश्च रणे नित्यं राक्षसश्चैष दुर्जयः।स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः।विसृज्य सशरं चापं स्वस्थो मखमुखोऽभवत्॥ १६ततस्तं निर्जितं मत्वा घोषयामास वै शुकः।रावणो जितवांश्चेति हर्षान्नादं च मुक्तवान्॥ १७तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान्।वितृप्तो रुधिरैस्तेषां पुनः संप्रययौ महीम्॥ १८रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः।ततः स्वां योनिमासाद्य तानि सत्त्वान्यथाब्रुवन्॥ १९हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम्।प्रीतोऽस्मि तव धर्मज्ञ उपकाराद्विहंगम॥ २०मम नेत्रसहस्रं यत्तत्ते बर्हे भविष्यति।वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणम्॥ २१नीलाः किल पुरा बर्हा मयूराणां नराधिप।सुराधिपाद्वरं प्राप्य गताः सर्वे विचित्रताम्॥ २२धर्मराजोऽब्रवीद्राम प्राग्वंशे वायसं स्थितम्।पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य च वचः शृणु॥ २३यथान्ये विविधै रोगैः पीड्यन्ते प्राणिनो मया।ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः॥ २४मृत्युतस्ते भयं नास्ति वरान्मम विहंगम।यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि॥ २५ये च मद्विषयस्थास्तु मानवाः क्षुधयार्दिताः।त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः॥ २६वरुणस्त्वब्रवीद्धंसं गङ्गातोयविचारिणम्।श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर॥ २७वर्णो मनोहरः सौम्यश्चन्द्रमण्डलसंनिभः।भविष्यति तवोदग्रः शुक्लफेनसमप्रभः॥ २८मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि।प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम्॥ २९हंसानां हि पुरा राम न वर्णः सर्वपाण्डुरः।पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः॥ ३०अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम्।हैरण्यं संप्रयच्छामि वर्णं प्रीतिस्तवाप्यहम्॥ ३१सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम्।एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति॥ ३२एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः।निवृत्ते सह राज्ञा वै पुनः स्वभवनं गताः॥ ३३इति श्रीरामायणे उत्तरकाण्डे अष्टादशः सर्गः ॥ १८
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved