॥ ॐ श्री गणपतये नमः ॥

२१ सर्गः
एवं संचिन्त्य विप्रेन्द्रो जगाम लघुविक्रमः।आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति॥ १अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम्।विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम्॥ २स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम्।अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः॥ ३कच्चित्क्षेमं नु देवर्षे कच्चिद्धर्मो न नश्यति।किमागमनकृत्यं ते देवगन्धर्वसेवित॥ ४अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः।श्रूयतामभिधास्यामि विधानं च विधीयताम्॥ ५एष नाम्ना दशग्रीवः पितृराज निशाचरः।उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम्॥ ६एतेन कारणेनाहं त्वरितोऽस्म्यागतः प्रभो।दण्डप्रहरणस्याद्य तव किं नु करिष्यति॥ ७एतस्मिन्नन्तरे दूरादंशुमन्तमिवोदितम्।ददृशे दिव्यमायान्तं विमानं तस्य रक्षसः॥ ८तं देशं प्रभया तस्य पुष्पकस्य महाबलः।कृत्वा वितिमिरं सर्वं समीपं समवर्तत॥ ९स त्वपश्यन्महाबाहुर्दशग्रीवस्ततस्ततः।प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम्॥ १०ततस्तान्वध्यमानांस्तु कर्मभिर्दुष्कृतैः स्वकैः।रावणो मोचयामास विक्रमेण बलाद्बली॥ ११प्रेतेषु मुच्यमानेषु राक्षसेन बलीयसा।प्रेतगोपाः सुसंरब्धा राक्षसेन्द्रमभिद्रवन्॥ १२ते प्रासैः परिघैः शूलैर्मुद्गरैः शक्तितोमरैः।पुष्पकं समवर्षन्त शूराः शतसहस्रशः॥ १३तस्यासनानि प्रासादान्वेदिकास्तरणानि च।पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव॥ १४देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे।भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा॥ १५ततस्ते रावणामात्या यथाकामं यथाबलम्।अयुध्यन्त महावीर्याः स च राजा दशाननः॥ १६ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः।अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत्॥ १७अन्योन्यं च महाभागा जघ्नुः प्रहरणैर्युधि।यमस्य च महत्सैन्यं राक्षसस्य च मन्त्रिणः॥ १८अमात्यांस्तांस्तु संत्यज्य राक्षसस्य महौजसः।तमेव समधावन्त शूलवर्षैर्दशाननम्॥ १९ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः।विमाने राक्षसश्रेष्ठः फुल्लाशोक इवाबभौ॥ २०स शूलानि गदाः प्रासाञ्शक्तितोमरसायकान्।मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली॥ २१तांस्तु सर्वान्समाक्षिप्य तदस्त्रमपहत्य च।जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रकः॥ २२परिवार्य च तं सर्वे शैलं मेघोत्करा इव।भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमकारयन्॥ २३विमुक्तकवचः क्रुद्धो सिक्तः शोणितविस्रवैः।स पुष्पकं परित्यज्य पृथिव्यामवतिष्ठत॥ २४ततः स कार्मुकी बाणी पृथिव्यां राक्षसाधिपः।लब्धसंज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः॥ २५ततः पाशुपतं दिव्यमस्त्रं संधाय कार्मुके।तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं व्यपकर्षत॥ २६ज्वालामाली स तु शरः क्रव्यादानुगतो रणे।मुक्तो गुल्मान्द्रुमांश्चैव भस्मकृत्वा प्रधावति॥ २७ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु।रणे तस्मिन्निपतिता दावदग्धा नगा इव॥ २८ततः स सचिवैः सार्धं राक्षसो भीमविक्रमः।ननाद सुमहानादं कम्पयन्निव मेदिनीम्॥ २९इति श्रीरामायणे उत्तरकाण्डे एकविंशतितमः सर्गः ॥ २१
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved