॥ ॐ श्री गणपतये नमः ॥

२३ सर्गः
स तु जित्वा दशग्रीवो यमं त्रिदशपुंगवम्।रावणस्तु जयश्लाघी स्वसहायान्ददर्श ह॥ १जयेन वर्धयित्वा च मारीचप्रमुखास्ततः।पुष्पकं भेजिरे सर्वे सान्त्विता रवणेन ह॥ २ततो रसातलं हृष्टः प्रविष्टः पयसो निधिम्।दैत्योरग गणाध्युष्टं वरुणेन सुरक्षितम्॥ ३स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम्।स्थाप्य नागान्वशे कृत्वा ययौ मणिमतीं पुरीम्॥ ४निवातकवचास्तत्र दैत्या लब्धवरा वसन्।राक्षसस्तान्समासाद्य युद्धेन समुपाह्वयत्॥ ५ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः।नानाप्रहरणास्तत्र प्रयुद्धा युद्धदुर्मदाः॥ ६तेषां तु युध्यमानानां साग्रः संवत्सरो गतः।न चान्यतरयोस्तत्र विजयो वा क्षयोऽपि वा॥ ७ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः।आजगाम द्रुतं देवो विमानवरमास्थितः॥ ८निवातकवचानां तु निवार्य रणकर्म तत्।वृद्धः पितामहो वाक्यमुवाच विदितार्थवत्॥ ९न ह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः।न भवन्तः क्षयं नेतुं शक्याः सेन्द्रैः सुरासुरैः॥ १०राक्षसस्य सखित्वं वै भवद्भिः सह रोचते।अविभक्ता हि सर्वार्थाः सुहृदां नात्र संशयः॥ ११ततोऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः।निवातकवचैः सार्धं प्रीतिमानभवत्तदा॥ १२अर्चितस्तैर्यथान्यायं संवत्सरसुखोषितः।स्वपुरान्निर्विशेषं च पूजां प्राप्तो दशाननः॥ १३स तूपधार्य मायानां शतमेकोनमात्मवान्।सलिलेन्द्रपुरान्वेषी स बभ्राम रसातलम्॥ १४ततोऽश्मनगरं नाम कालकेयाभिरक्षितम्।तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम्॥ १५ततः पाण्डुरमेघाभं कैलासमिव संस्थितम्।वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः॥ १६क्षरन्तीं च पयो नित्यं सुरभिं गामवस्थिताम्।यस्याः पयोविनिष्यन्दात्क्षीरोदो नाम सागरः॥ १७यस्माच्चन्द्रः प्रभवति शीतरश्मिः प्रजाहितः।यं समासाद्य जीवन्ति फेनपाः परमर्षयः।अमृतं यत्र चोत्पन्नं सुरा चापि सुराशिनाम्॥ १८यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः।प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम्।प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः॥ १९ततो धाराशताकीर्णं शारदाभ्रनिभं तदा।नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम्॥ २०ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः।अब्रवीत्क्व गतो यो वो राजा शीघ्रं निवेद्यताम्॥ २१युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम्।वद वा न भयं तेऽस्ति निर्जितोऽस्मीति साञ्जलिः॥ २२एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः।पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च॥ २३ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः।युक्त्वा रथान्कामगमानुद्यद्भास्करवर्चसः॥ २४ततो युद्धं समभवद्दारुणं लोमहर्षणम्।सलिलेन्द्रस्य पुत्राणां रावणस्य च रक्षसः॥ २५अमात्यैस्तु महावीर्यैर्दशग्रीवस्य रक्षसः।वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम्॥ २६समीक्ष्य स्वबलं संख्ये वरुणस्या सुतास्तदा।अर्दिताः शरजालेन निवृत्ता रणकर्मणः॥ २७महीतलगतास्ते तु रावणं दृश्य पुष्पके।आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः॥ २८महदासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत्।आकाशयुद्धं तुमुलं देवदानवयोरिव॥ २९ततस्ते रावणं युद्धे शरैः पावकसंनिभैः।विमुखीकृत्य संहृष्टा विनेदुर्विविधान्रवान्॥ ३०ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम्।त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत्॥ ३१तेन तेषां हया ये च कामगाः पवनोपमाः।महोदरेण गदया हतास्ते प्रययुः क्षितिम्॥ ३२तेषां वरुणसूनूनां हत्वा योधान्हयांश्च तान्।मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान्॥ ३३ते तु तेषां रथाः साश्वाः सह सारथिभिर्वरैः।महोदरेण निहताः पतिताः पृथिवीतले॥ ३४ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः।आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः॥ ३५धनूंषि कृत्वा सज्यानि विनिर्भिद्य महोदरम्।रावणं समरे क्रुद्धाः सहिताः समभिद्रवन्॥ ३६ततः क्रुद्धो दशग्रीवः कालाग्निरिव विष्ठितः।शरवर्षं महावेगं तेषां मर्मस्वपातयत्॥ ३७मुसलानि विचित्राणि ततो भल्लशतानि च।पट्टसांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा।पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः॥ ३८अथ विद्धास्तु ते वीरा विनिष्पेतुः पदातयः॥ ३९ततो रक्षो महानादं मुक्त्वा हन्ति स्म वारुणान्।नानाप्रहरणैर्घोरैर्धारापातैरिवाम्बुदः॥ ४०ततस्ते विमुखाः सर्वे पतिता धरणीतले।रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः॥ ४१तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम्।रावणं चाब्रवीन्मन्त्री प्रभासो नाम वारुणः॥ ४२गतः खलु महातेजा ब्रह्मलोकं जलेश्वरः।गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि॥ ४३तत्किं तव वृथा वीर परिश्राम्य गते नृपे।ये तु संनिहिता वीराः कुमारास्ते पराजिताः॥ ४४राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः।हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात्॥ ४५आगतस्तु पथा येन तेनैव विनिवृत्य सः।लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ॥ ४६इति श्रीरामायणे उत्तरकाण्डे त्रयोविंशतितमः सर्गः ॥ २३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved