॥ ॐ श्री गणपतये नमः ॥

२५ सर्गः
स तु दत्त्वा दशग्रीवो वनं घोरं खरस्य तत्।भगिनीं च समाश्वास्य हृष्टः स्वस्थतरोऽभवत्॥ १ततो निकुम्भिला नाम लङ्कायाः काननं महत्।महात्मा राक्षसेन्द्रस्तत्प्रविवेश सहानुगः॥ २तत्र यूपशताकीर्णं सौम्यचैत्योपशोभितम्।ददर्श विष्ठितं यज्ञं संप्रदीप्तमिव श्रिया॥ ३ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम्।ददर्श स्वसुतं तत्र मेघनादमरिंदमम्॥ ४रक्षःपतिः समासाद्य समाश्लिष्य च बाहुभिः।अब्रवीत्किमिदं वत्स वर्तते तद्ब्रवीहि मे॥ ५उशना त्वब्रवीत्तत्र गुरुर्यज्ञसमृद्धये।रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः॥ ६अहमाख्यामि ते राजञ्श्रूयतां सर्वमेव च।यज्ञास्ते सप्त पुत्रेण प्राप्ताः सुबहुविस्तराः॥ ७अग्निष्टोमोऽश्वमेधश्च यज्ञो बहुसुवर्णकः।राजसूयस्तथा यज्ञो गोमेधो वैष्णवस्तथा॥ ८माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे।वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह॥ ९कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम्।मायां च तामसीं नाम यया संपद्यते तमः॥ १०एतया किल संग्रामे मायया राक्षसेश्वर।प्रयुद्धस्य गतिः शक्या न हि ज्ञातुं सुरासुरैः॥ ११अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम्।अस्त्रं च बलवत्सौम्य शत्रुविध्वंसनं रणे॥ १२एतान्सर्वान्वराँल्लब्ध्वा पुत्रस्तेऽयं दशानन।अद्य यज्ञसमाप्तौ च त्वत्प्रतीक्षः स्थितो अहम्॥ १३ततोऽब्रवीद्दशग्रीवो न शोभनमिदं कृतम्।पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः॥ १४एहीदानीं कृतं यद्धि तदकर्तुं न शक्यते।आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति॥ १५ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः।स्त्रियोऽवतारयामास सर्वास्ता बाष्पविक्लवाः॥ १६लक्षिण्यो रत्नबूताश्च देवदानवरक्षसाम्।नानाभूषणसंपन्ना ज्वलन्त्यः स्वेन तेजसा॥ १७विभीषणस्तु ता नारीर्दृष्ट्वा शोकसमाकुलाः।तस्य तां च मतिं ज्ञात्वा धर्मात्मा वाक्यमब्रवीत्॥ १८ईदृशैस्तैः समाचारैर्यशोऽर्थकुलनाशनैः।धर्षणं प्राणिनां दत्त्वा स्वमतेन विचेष्टसे॥ १९ज्ञातीन्वै धर्षयित्वेमास्त्वयानीता वराङ्गनाः।त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता॥ २०रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम्।को वायं यस्त्वयाख्यातो मधुरित्येव नामतः॥ २१विभीषणस्तु संक्रुद्धो भ्रातरं वाक्यमब्रवीत्।श्रूयतामस्य पापस्य कर्मणः फलमागतम्॥ २२मातामहस्य योऽस्माकं ज्येष्ठो भ्राता सुमालिनः।माल्यवानिति विख्यातो वृद्धप्राज्ञो निशाचरः॥ २३पितुर्ज्येष्ठो जनन्याश्च अस्माकं त्वार्यकोऽभवत्।तस्य कुम्भीनसी नाम दुहितुर्दुहिताभवत्॥ २४मातृष्वसुरथास्माकं सा कन्या चानलोद्भवा।भवत्यस्माकमेषा वै भ्रातॄणां धर्मतः स्वसा॥ २५सा हृता मधुना राजन्राक्षसेन बलीयसा।यज्ञप्रवृत्ते पुत्रे ते मयि चान्तर्जलोषिते॥ २६निहत्य राक्षसश्रेष्ठानमात्यांस्तव संमतान्।धर्षयित्वा हृता राजन्गुप्ता ह्यन्तःपुरे तव॥ २७श्रुत्वा त्वेतन्महाराज क्षान्तमेव हतो न सः।यस्मादवश्यं दातव्या कन्या भर्त्रे हि दातृभिः।अस्मिन्नेवाभिसंप्राप्तं लोके विदितमस्तु ते॥ २८ततोऽब्रवीद्दशग्रीवः क्रुद्धः संरक्तलोचनः।कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु च॥ २९भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः।वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः॥ ३०अद्य तं समरे हत्वा मधुं रावणनिर्भयम्।इन्द्रलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः॥ ३१ततो विजित्य त्रिदिवं वशे स्थाप्य पुरंदरम्।निर्वृतो विहरिष्यामि त्रैलोक्यैश्वर्यशोभितः॥ ३२अक्षौहिणीसहस्राणि चत्वार्युग्राणि रक्षसाम्।नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम्॥ ३३इन्द्रजित्त्वग्रतः सैन्यं सैनिकान्परिगृह्य च।रावणो मध्यतः शूरः कुम्भकर्णश्च पृष्ठतः॥ ३४विभीषणस्तु धर्मात्मा लङ्कायां धर्ममाचरत्।ते तु सर्वे महाभागा ययुर्मधुपुरं प्रति॥ ३५रथैर्नागैः खरैरुष्ट्रैर्हयैर्दीप्तैर्महोरगैः।राक्षसाः प्रययुः सर्वे कृत्वाकाशं निरन्तरम्॥ ३६दैत्याश्च शतशस्तत्र कृतवैराः सुरैः सह।रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्त पृष्ठतः॥ ३७स तु गत्वा मधुपुरं प्रविश्य च दशाननः।न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान्॥ ३८सा प्रह्वा प्राञ्जलिर्भूत्वा शिरसा पादयोर्गता।तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी स्वसा॥ ३९तां समुत्थापयामास न भेतव्यमिति ब्रुवन्।रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते॥ ४०साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाबल।भर्तारं न ममेहाद्य हन्तुमर्हसि मानद॥ ४१सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम्।त्वया ह्युक्तं महाबाहो न भेतव्यमिति स्वयम्॥ ४२रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम्।क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम्॥ ४३सह तेन गमिष्यामि सुरलोकं जयाय वै।तव कारुण्यसौहार्दान्निवृत्तोऽस्मि मधोर्वधात्॥ ४४इत्युक्ता सा प्रसुप्तं तं समुत्थाप्य निशाचरम्।अब्रवीत्संप्रहृष्टेव राक्षसी सुविपश्चितम्॥ ४५एष प्राप्तो दशग्रीवो मम भ्राता निशाचरः।सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च॥ ४६तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस।स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम्॥ ४७तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः।ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः॥ ४८पूजयामास धर्मेण रावणं राक्षसाधिपम्।प्राप्तपूजो दशग्रीवो मधुवेश्मनि वीर्यवान्।तत्र चैकां निशामुष्य गमनायोपचक्रमे॥ ४९ततः कैलासमासाद्य शैलं वैश्रवणालयम्।राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत्॥ ५०इति श्रीरामायणे उत्तरकाण्डे पञ्चविंशतितमः सर्गः ॥ २५
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved