॥ ॐ श्री गणपतये नमः ॥

३० सर्गः
जिते महेन्द्रेऽतिबले रावणस्य सुतेन वै।प्रजापतिं पुरस्कृत्य गता लङ्कां सुरास्तदा॥ १तं रावणं समासाद्य पुत्रभ्रातृभिरावृतम्।अब्रवीद्गगने तिष्ठन्सान्त्वपूर्वं प्रजापतिः॥ २वत्स रावण तुष्टोऽस्मि तव पुत्रस्य संयुगे।अहोऽस्य विक्रमौदार्यं तव तुल्योऽधिकोऽपि वा॥ ३जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा।कृता प्रतिज्ञा सफला प्रीतोऽस्मि स्वसुतेन वै॥ ४अयं च पुत्रोऽतिबलस्तव रावण रावणिः।इन्द्रजित्त्विति विख्यातो जगत्येष भविष्यति॥ ५बलवाञ्शत्रुनिर्जेता भविष्यत्येष राक्षसः।यमाश्रित्य त्वया राजन्स्थापितास्त्रिदशा वशे॥ ६तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः।किं चास्य मोक्षणार्थाय प्रयच्छन्ति दिवौकसः॥ ७अथाब्रवीन्महातेजा इन्द्रजित्समितिंजयः।अमरत्वमहं देव वृणोमीहास्य मोक्षणे॥ ८अब्रवीत्तु तदा देवो रावणिं कमलोद्भवः।नास्ति सर्वामरत्वं हि केषांचित्प्राणिनां भुवि॥ ९अथाब्रवीत्स तत्रस्थमिन्द्रजित्पद्मसंभवम्।श्रूयतां या भवेत्सिद्धिः शतक्रतुविमोक्षणे॥ १०ममेष्टं नित्यशो देव हव्यैः संपूज्य पावकम्।संग्राममवतर्तुं वै शत्रुनिर्जयकाङ्क्षिणः॥ ११तस्मिंश्चेदसमाप्ते तु जप्यहोमे विभावसोः।युध्येयं देव संग्रामे तदा मे स्याद्विनाशनम्॥ १२सर्वो हि तपसा चैव वृणोत्यमरतां पुमान्।विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम्॥ १३एवमस्त्विति तं प्राह वाक्यं देवः प्रजापतिः।मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः॥ १४एतस्मिन्नन्तरे शक्रो दीनो भ्रष्टाम्बरस्रजः।राम चिन्तापरीतात्मा ध्यानतत्परतां गतः॥ १५तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः।शतक्रतो किमुत्कण्ठां करोषि स्मर दुष्कृतम्॥ १६अमरेन्द्र मया बह्व्यः प्रजाः सृष्टाः पुरा प्रभो।एकवर्णाः समाभाषा एकरूपाश्च सर्वशः॥ १७तासां नास्ति विशेषो हि दर्शने लक्षणेऽपि वा।ततोऽहमेकाग्रमनास्ताः प्रजाः पर्यचिन्तयम्॥ १८सोऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे।यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम्॥ १९ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता।अहल्येत्येव च मया तस्या नाम प्रवर्तितम्॥ २०निर्मितायां तु देवेन्द्र तस्यां नार्यां सुरर्षभ।भविष्यतीति कस्यैषा मम चिन्ता ततोऽभवत्॥ २१त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो।स्थानाधिकतया पत्नी ममैषेति पुरंदर॥ २२सा मया न्यासभूता तु गौतमस्य महात्मनः।न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च सा॥ २३ततस्तस्य परिज्ञाय मया स्थैर्यं महामुनेः।ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा॥ २४स तया सह धर्मात्मा रमते स्म महामुनिः।आसन्निराशा देवास्तु गौतमे दत्तया तया॥ २५त्वं क्रुद्धस्त्विह कामात्मा गत्वा तस्याश्रमं मुनेः।दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव॥ २६सा त्वया धर्षिता शक्र कामार्तेन समन्युना।दृष्टस्त्वं च तदा तेन आश्रमे परमर्षिणा॥ २७ततः क्रुद्धेन तेनासि शप्तः परमतेजसा।गतोऽसि येन देवेन्द्र दशाभागविपर्ययम्॥ २८यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम्।तस्मात्त्वं समरे राजञ्शत्रुहस्तं गमिष्यसि॥ २९अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः।मानुषेष्वपि सर्वेषु भविष्यति न संशयः॥ ३०तत्राधर्मः सुबलवान्समुत्थास्यति यो महान्।तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति॥ ३१न च ते स्थावरं स्थानं भविष्यति पुरंदर।एतेनाधर्मयोगेन यस्त्वयेह प्रवर्तितः॥ ३२यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति।एष शापो मया मुक्त इत्यसौ त्वां तदाब्रवीत्॥ ३३तां तु भार्यां विनिर्भर्त्स्य सोऽब्रवीत्सुमहातपाः।दुर्विनीते विनिध्वंस ममाश्रमसमीपतः॥ ३४रूपयौवनसंपन्ना यस्मात्त्वमनवस्थिता।तस्माद्रूपवती लोके न त्वमेका भविष्यसि॥ ३५रूपं च तत्प्रजाः सर्वा गमिष्यन्ति सुदुर्लभम्।यत्तवेदं समाश्रित्य विभ्रमेऽयमुपस्थितः॥ ३६तदा प्रभृति भूयिष्ठं प्रजा रूपसमन्विताः।शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपागतम्॥ ३७तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम्।येन त्वं ग्रहणं शत्रोर्गतो नान्येन वासव॥ ३८शीघ्रं यजस्व यज्ञं त्वं वैष्णवं सुसमाहितः।पावितस्तेन यज्ञेन यास्यसि त्रिदिवं ततः॥ ३९पुत्रश्च तव देवेन्द्र न विनष्टो महारणे।नीतः संनिहितश्चैव अर्यकेण महोदधौ॥ ४०एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम्।पुनस्त्रिदिवमाक्रामदन्वशासच्च देवताः॥ ४१एतदिन्द्रजितो राम बलं यत्कीर्तितं मया।निर्जितस्तेन देवेन्द्रः प्राणिनोऽन्ये च किं पुनः॥ ४२इति श्रीरामायणे उत्तरकाण्डे त्रिंशत्तमः सर्गः ॥ ३०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved