॥ ॐ श्री गणपतये नमः ॥

३२ सर्गः
नर्मदा पुलिने यत्र राक्षसेन्द्रः स रावणः।पुष्पोपहारं कुरुते तस्माद्देशाददूरतः॥ १अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः।क्रीडिते सह नारीभिर्नर्मदातोयमाश्रितः॥ २तासां मध्यगतो राज रराज स ततोऽर्जुनः।करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः॥ ३जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम्।रुरोध नर्मदा वेगं बाहुभिः स तदार्जुनः॥ ४कार्तवीर्यभुजासेतुं तज्जलं प्राप्य निर्मलम्।कूलापहारं कुर्वाणं प्रतिस्रोतः प्रधावति॥ ५समीननक्रमकरः सपुष्पकुशसंस्तरः।स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ॥ ६स वेगः कार्तवीर्येण संप्रेषिट इवाम्भसः।पुष्पोपहारं तत्सर्वं रावणस्य जहार ह॥ ७रावणोऽर्धसमाप्तं तु उत्सृज्य नियमं तदा।नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम्॥ ८पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसंनिभम्।वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु॥ ९ततोऽनुद्भ्रान्तशकुनां स्वाभाव्ये परमे स्थिताम्।निर्विकाराङ्गनाभासां पश्यते रावणो नदीम्॥ १०सव्येतरकराङ्गुल्या सशब्दं च दशाननः।वेगप्रभवमन्वेष्टुं सोऽदिशच्छुकसारणौ॥ ११तौ तु रावणसंदिष्टौ भ्रातरौ शुकसारणौ।व्योमान्तरचरौ वीरौ प्रस्थितौ पश्चिमोन्मुखौ॥ १२अर्धयोजनमात्रं तु गत्वा तौ तु निशाचरौ।पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम्॥ १३बृहत्सालप्रतीकशं तोयव्याकुलमूर्धजम्।मदरक्तान्तनयनं मदनाकारवर्चसं॥ १४नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम्।गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम्॥ १५बालानां वरनारीणां सहस्रेणाभिसंवृतम्।समदानां करेणूनां सहस्रेणेव कुञ्जरम्॥ १६तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ।संनिवृत्तावुपागम्य रावणं तमथोचतुः॥ १७बृहत्सालप्रतीकाशः कोऽप्यसौ राक्षसेश्वर।नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः॥ १८तेन बाहुसहस्रेण संनिरुद्धजला नदी।सागरोद्गारसंकाशानुद्गारान्सृजते मुहुः॥ १९इत्येवं भाषमाणौ तौ निशम्य शुकसारणौ।रावणोऽर्जुन इत्युक्त्वा उत्तस्थौ युद्धलालसः॥ २०अर्जुनाभिमुखे तस्मिन्प्रस्थिते राक्षसेश्वरे।सकृदेव कृतो रावः सरक्तः प्रेषितो घनैः॥ २१महोदरमहापार्श्वधूम्राक्षशुकसारणैः।संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र सोऽर्जुनः॥ २२नातिदीर्घेण कालेन स ततो राक्षसो बली।तं नर्मदा ह्रदं भीममाजगामाञ्जनप्रभः॥ २३स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम्।नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम्॥ २४स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः।इत्येवमर्जुनामात्यानाह गम्भीरया गिरा॥ २५अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै।युद्धार्थं समनुप्राप्तो रावणो नाम नामतः॥ २६रावणस्य वचः श्रुत्वा मन्त्रिणोऽथार्जुनस्य ते।उत्तस्थुः सायुधास्तं च रावणं वाक्यमब्रुवन्॥ २७युद्धस्य कालो विज्ञातः साधु भोः साधु रावण।यः क्षीबं स्त्रीवृतं चैव योद्धुमिच्छसि नो नृपम्।वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम्॥ २८क्षमस्वाद्य दशग्रीव उष्यतां रजनी त्वया।युद्धश्रद्धा तु यद्यस्ति श्वस्तात समरेऽर्जुनम्॥ २९यदि वापि त्वरा तुभ्यं युद्धतृष्णासमावृता।निहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि॥ ३०ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु।सूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः॥ ३१ततो हलहलाशब्दो नर्मदा तिर आबभौ।अर्जुनस्यानुयात्राणां रावणस्य च मन्त्रिणाम्॥ ३२इषुभिस्तोमरैः शूलैर्वज्रकल्पैः सकर्षणैः।सरावणानर्दयन्तः समन्तात्समभिद्रुताः॥ ३३हैहयाधिपयोधानां वेग आसीत्सुदारुणः।सनक्रमीनमकरसमुद्रस्येव निस्वनः॥ ३४रावणस्य तु तेऽमात्याः प्रहस्तशुकसारणाः।कार्तवीर्यबलं क्रुद्धा निर्दहन्त्यग्नितेजसः॥ ३५अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः।क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः॥ ३६उक्त्वा न भेतव्यमिति स्त्रीजनं स ततोऽर्जुनः।उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः॥ ३७क्रोधदूषितनेत्रस्तु स ततोऽर्जुन पावकः।प्रजज्वाल महाघोरो युगान्त इव पावकः॥ ३८स तूर्णतरमादाय वरहेमाङ्गदो गदाम्।अभिद्रवति रक्षांसि तमांसीव दिवाकरः॥ ३९बाहुविक्षेपकरणां समुद्यम्य महागदाम्।गारुडं वेगमास्थाय आपपातैव सोऽर्जुनः॥ ४०तस्य मर्गं समावृत्य विन्ध्योऽर्कस्येव पर्वतः।स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः॥ ४१ततोऽस्य मुसलं घोरं लोहबद्धं मदोद्धतः।प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाम्बुदः॥ ४२तस्याग्रे मुसलस्याग्निरशोकापीडसंनिभः।प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव॥ ४३आधावमानं मुसलं कार्तवीर्यस्तदार्जुनः।निपुणं वञ्चयामास सगदो गजविक्रमः॥ ४४ततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः।भ्रामयाणो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम्॥ ४५तेनाहतोऽतिवेगेन प्रहस्तो गदया तदा।निपपात स्थितः शैलो वज्रिवज्रहतो यथा॥ ४६प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः।समहोदरधूम्राक्षा अपसृप्ता रणाजिरात्॥ ४७अपक्रान्तेष्वमात्येषु प्रहस्ते च निपातिते।रावणोऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम्॥ ४८सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम्।नृपराक्षसयोस्तत्र आरब्धं लोमहर्षणम्॥ ४९सागराविव संक्षुब्धौ चलमूलाविवाचलौ।तेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ॥ ५०बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ।मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ॥ ५१रुद्रकालाविव क्रुद्धौ तौ तथा राक्षसार्जुनौ।परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम्॥ ५२वज्रप्रहारानचला यथा घोरान्विषेहिरे।गदाप्रहारांस्तद्वत्तौ सहेते नरराक्षसौ॥ ५३यथाशनिरवेभ्यस्तु जायते वै प्रतिश्रुतिः।तथा ताभ्यां गदापातैर्दिशः सर्वाः प्रतिश्रुताः॥ ५४अर्जुनस्य गदा सा तु पात्यमानाहितोरसि।काञ्चनाभं नभश्चक्रे विद्युत्सौदामनी यथा॥ ५५तथैव रावणेनापि पात्यमाना मुहुर्मुहुः।अर्जुनोरसि निर्भाति गदोल्केव महागिरौ॥ ५६नार्जुनः खेदमाप्नोति न राक्षसगणेश्वरः।सममासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः॥ ५७शृङ्गैर्महर्षभौ यद्वद्दन्ताग्रैरिव कुञ्जरौ।परस्परं विनिघ्नन्तौ नरराक्षससत्तमौ॥ ५८ततोऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा।स्तनयोरन्तरे मुक्ता रावणस्य महाहवे॥ ५९वरदानकृतत्राणे सा गदा रावणोरसि।दुर्बलेव यथा सेना द्विधाभूतापतत्क्षितौ॥ ६०स त्वर्जुनप्रमुक्तेन गदापातेन रावणः।अपासर्पद्धनुर्मात्रं निषसाद च निष्टनन्॥ ६१स विह्वलं तदालक्ष्य दशग्रीवं ततोऽर्जुनः।सहसा प्रतिजग्राह गरुत्मानिव पन्नगम्॥ ६२स तं बाहुसहस्रेण बलाद्गृह्य दशाननम्।बबन्ध बलवान्राजा बलिं नारायणो यथा॥ ६३बध्यमाने दशग्रीवे सिद्धचारणदेवताः।साध्वीति वादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि॥ ६४व्याघ्रो मृगमिवादाय सिंहराडिव दन्तिनम्।ररास हैहयो राजा हर्षादम्बुदवन्मुहुः॥ ६५प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम्।सह तै राकसैः क्रुद्ध अभिदुद्राव पार्थिवम्॥ ६६नक्तंचराणां वेगस्तु तेषामापततां बभौ।उद्धृत आतपापाये समुद्राणामिवाद्भुतः॥ ६७मुञ्च मुञ्चेति भाषन्तस्तिष्ठ तिष्ठेति चासकृत्।मुसलानि च शूलानि उत्ससर्जुस्तदार्जुने॥ ६८अप्राप्तान्येव तान्याशु असंभ्रान्तस्तदार्जुनः।आयुधान्यमरारीणां जग्राह रिपुसूदनः॥ ६९ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः।भित्त्वा विद्रावयामास वायुरम्बुधरानिव॥ ७०राक्षसांस्त्रासयित्वा तु कार्तवीर्यार्जुनस्तदा।रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः॥ ७१स कीर्यमाणः कुसुमाक्षतोत्करैर्द्विजैः सपौरैः पुरुहूतसंनिभः।तदार्जुनः संप्रविवेश तां पुरींबलिं निगृह्यैव सहस्रलोचनः॥ ७२इति श्रीरामायणे उत्तरकाण्डे द्वात्रिंशत्तमः सर्गः ॥ ३२
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved