४३ सर्गः
विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः।समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत्॥ १शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम्।भरतं च महाबाहुं शत्रुघ्नं चापराजितम्॥ २रामस्य भाषितं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः।लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः॥ ३उवाच च तदा वाक्यं वर्धयित्वा कृताञ्जलिः।द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम्॥ ४बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम्।प्राद्रवद्रथमारुह्य राघवस्य निवेशनम्॥ ५प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात्।उवाच प्राञ्जलिर्वाक्यं राजा त्वां द्रष्टुमिच्छति॥ ६भरतस्तु वचः श्रुत्वा द्वाःस्थाद्रामसमीरितम्।उत्पपातासनात्तूर्णं पद्भ्यामेव ततोऽगमत्॥ ७दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः।शत्रुघ्नभवनं गत्वा ततो वाक्यं जगाद ह॥ ८एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति।गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः॥ ९श्रुत्वा तु वचनं तस्य शत्रुघ्नो रामशासनम्।शिरसा वन्द्य धरणीं प्रययौ यत्र राघवः॥ १०कुमारानागताञ्श्रुत्वा चिन्ताव्याकुलितेन्द्रियः।अवाक्शिरा दीनमना द्वाःस्थं वचनमब्रवीत्॥ ११प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः।एतेषु जीवितं मह्यमेते प्राणा बहिश्चराः॥ १२आज्ञप्तास्तु नरेन्द्रेण कुमाराः शुक्लवाससः।प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः॥ १३ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा।संध्यागतमिवादित्यं प्रभया परिवर्जितम्॥ १४बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः।हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते॥ १५ततोऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः।तस्थुः समाहिताः सर्वे रामश्चाश्रूण्यवर्तयत्॥ १६तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाभुजः।आसनेष्वाध्वमित्युक्त्वा ततो वाक्यं जगाद ह॥ १७भवन्तो मम सर्वस्वं भवन्तो मम जीवितम्।भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः॥ १८भवन्तः कृतशास्त्रार्था बुद्धौ च परिनिष्ठिताः।संभूय च मदर्थोऽयमन्वेष्टव्यो नरेश्वराः॥ १९इति श्रीरामायणे उत्तरकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved