॥ ॐ श्री गणपतये नमः ॥

४४ सर्गः
तेषां समुपविष्टानां सर्वेषां दीनचेतसाम्।उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता॥ १सर्वे शृणुत भद्रं वो मा कुरुध्वं मनोऽन्यथा।पौराणां मम सीतायां यादृशी वर्तते कथा॥ २पौरापवादः सुमहांस्तथा जनपदस्य च।वर्तते मयि बीभत्सः स मे मर्माणि कृन्तति॥ ३अहं किल कुले जात इक्ष्वाकूणां महात्मनाम्।सीतां पापसमाचारामानयेयं कथं पुरे॥ ४जानासि हि यथा सौम्य दण्डके विजने वने।रावणेन हृता सीता स च विध्वंसितो मया॥ ५प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः।अपापां मैथिलीमाह वायुश्चाकाशगोचरः॥ ६चन्द्रादित्यौ च शंसेते सुराणां संनिधौ पुरा।ऋषीणां चैव सर्वेषामपापां जनकात्मजाम्॥ ७एवं शुद्धसमाचारा देवगन्धर्वसंनिधौ।लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता॥ ८अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम्।ततो गृहीत्वा वैदेहीमयोध्यामहमागतः॥ ९अयं तु मे महान्वादः शोकश्च हृदि वर्तते।पौरापवादः सुमहांस्तथा जनपदस्य च॥ १०अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित्।पतत्येवाधमाँल्लोकान्यावच्छब्दः स कीर्त्यते॥ ११अकीर्तिर्निन्द्यते दैवैः कीर्तिर्देवेषु पूज्यते।कीर्त्यर्थं च समारम्भः सर्व एव महात्मनाम्॥ १२अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः।अपवादभयाद्भीतः किं पुनर्जनकात्मजाम्॥ १३तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे।न हि पश्याम्यहं भूयः किंचिद्दुःखमतोऽधिकम्॥ १४श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम्।आरुह्य सीतामारोप्य विषयान्ते समुत्सृज॥ १५गङ्गायास्तु परे पारे वाल्मीकेः सुमहात्मनः।आश्रमो दिव्यसंकाशस्तमसातीरमाश्रितः॥ १६तत्रैनां विजने कक्षे विसृज्य रघुनन्दन।शीघ्रमागच्छ सौमित्रे कुरुष्व वचनं मम॥ १७न चास्मि प्रतिवक्तव्यः सीतां प्रति कथंचन।अप्रीतिः परमा मह्यं भवेत्तु प्रतिवारिते॥ १८शापिताश्च मया यूयं भुजाभ्यां जीवितेन च।ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथंचन॥ १९मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः।इतोऽद्य नीयतां सीता कुरुष्व वचनं मम॥ २०पूर्वमुक्तोऽहमनया गङ्गातीरे महाश्रमान्।पश्येयमिति तस्याश्च कामः संवर्त्यतामयम्॥ २१एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहितेक्षणः।प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः॥ २२इति श्रीरामायणे उत्तरकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved