४६ सर्गः
अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः।आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम्॥ १सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः।उवाच शोकसंतप्तः प्रयाहीति च नाविकम्॥ २ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः।उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पगद्गदः॥ ३हृद्गतं मे महच्छल्यं यदस्म्यार्येण धीमता।अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः॥ ४श्रेयो हि मरणं मेऽद्य मृत्योर्वा यत्परं भवेत्।न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते॥ ५प्रसीद न च मे रोषं कर्तुमर्हसि सुव्रते।इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः॥ ६रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः।मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत्॥ ७किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण।पश्यामि त्वां च न स्वस्थमपि क्षेमं महीपतेः॥ ८शापितोऽसि नरेन्द्रेण यत्त्वं संतापमात्मनः।तद्ब्रूयाः संनिधौ मह्यमहमाज्ञापयामि ते॥ ९वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः।अवाङ्मुखो बाष्पगलो वाक्यमेतदुवाच ह॥ १०श्रुत्वा परिषदो मध्ये अपवादं सुदारुणम्।पुरे जनपदे चैव त्वत्कृते जनकात्मजे॥ ११न तानि वचनीयानि मया देवि तवाग्रतः।यानि राज्ञा हृदि न्यस्तान्यमर्षः पृष्ठतः कृतः॥ १२सा त्वं त्यक्ता नृपतिना निर्दोषा मम संनिधौ।पौरापवादभीतेन ग्राह्यं देवि न तेऽन्यथा॥ १३आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि।राज्ञः शासनमाज्ञाय तवैवं किल दौर्हृदम्॥ १४तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम्।पुण्यं च रमणीयं च मा विषादं कृथाः शुभे॥ १५राज्ञो दशरथस्यैष पितुर्मे मुनिपुंगवः।सखा परमको विप्रो वाल्मीकिः सुमहायशाः॥ १६पादच्छायामुपागम्य सुखमस्य महात्मनः।उपवासपरैकाग्रा वस त्वं जनकात्मजे॥ १७पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि।श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति॥ १८इति श्रीरामायणे उत्तरकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved