५१ सर्गः
तत्र तां रजनीमुष्य गोमत्यां रघुनन्दनः।प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा॥ १ततोऽर्धदिवसे प्राप्ते प्रविवेश महारथः।अयोध्यां रत्नसंपूर्णां हृष्टपुष्टजनावृताम्॥ २सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः।रामपादौ समासाद्य वक्ष्यामि किमहं गतः॥ ३तस्यैवं चिन्तयानस्य भवनं शशिसंनिभम्।रामस्य परमोदारं पुरस्तात्समदृश्यत॥ ४राज्ञस्तु भवनद्वारि सोऽवतीर्य नरोत्तमः।अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः॥ ५स दृष्ट्वा राघवं दीनमासीनं परमासने।नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः॥ ६जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः।उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः॥ ७आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम्।गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुभे।पुनरस्म्यागतो वीर पादमूलमुपासितुम्॥ ८मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी।त्वद्विधा न हि शोचन्ति सत्त्ववन्तो मनस्विनः॥ ९सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्॥ १०शक्तस्त्वमात्मनात्मानं विजेतुं मनसैव हि।लोकान्सर्वांश्च काकुत्स्थ किं पुनर्दुःखमीदृशम्॥ ११नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः।यदर्थं मैथिली त्यक्ता अपवादभयान्नृप॥ १२स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः।त्यजेमां दुर्बलां बुद्धिं संतापं मा कुरुष्व ह॥ १३एवमुक्तस्तु काकुत्स्थो लक्ष्मणेन महात्मना।उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलम्॥ १४एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण।परितोषश्च मे वीर मम कार्यानुशासने॥ १५निर्वृतिश्च कृता सौम्य संतापश्च निराकृतः।भवद्वाक्यैः सुमधुरैरनुनीतोऽस्मि लक्ष्मण॥ १६इति श्रीरामायणे उत्तरकाण्डे एकपञ्चाशः सर्गः ॥ ५१
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved