॥ ॐ श्री गणपतये नमः ॥

६३ सर्गः
ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम्।अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः॥ १मन्त्रिणो बलमुख्यांश्च निवर्त्य च पुरोधसं।जगाम रथमुख्येन हययुक्तेन भास्वता॥ २स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः।अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः॥ ३स प्रविश्य पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः।प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः॥ ४सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा।उवाच प्राञ्जलिर्भूत्वा रामं सत्यपराक्रमम्॥ ५यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम्।हतः स लवणः पापः पुरी सा च निवेशिता॥ ६द्वादशं च गतं वर्षं त्वां विना रघुनन्दन।नोत्सहेयमहं वस्तुं त्वया विरहितो नृप॥ ७स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम।मातृहीनो यथा वत्सस्त्वां विना प्रवसाम्यहम्॥ ८एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत्।मा विषादं कृथा वीर नैतत्क्षत्रियचेष्टितम्॥ ९नावसीदन्ति राजानो विप्रवासेषु राघव।प्रजाश्च परिपाल्या हि क्षत्रधर्मेण राघव॥ १०काले काले च मां वीर अयोध्यामवलोकितुम्।आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव॥ ११ममापि त्वं सुदयितः प्राणैरपि न संशयः।अवश्यं करणीयं च राज्यस्य परिपालनम्॥ १२तस्मात्त्वं वस काकुत्स्थ पञ्चरात्रं मया सह।ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः॥ १३रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोऽनुगम्।शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत्॥ १४स पञ्चरात्रं काकुत्स्थो राघवस्य यथाज्ञया।उष्य तत्र महेष्वासो गमनायोपचक्रमे॥ १५आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम्।भरतं लक्ष्मणं चैव महारथमुपारुहत्॥ १६दूरं ताभ्यामनुगतो लक्ष्मणेन महात्मना।भरतेन च शत्रुघ्नो जगामाशु पुरीं तदा॥ १७इति श्रीरामायणे उत्तरकाण्डे त्रिषष्टितमः सर्गः ॥ ६३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved