॥ ॐ श्री गणपतये नमः ॥

८७ सर्गः
तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः।ऋषीन्सर्वान्महातेजाः शब्दापयति राघवः॥ १वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः।विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः॥ २अगस्त्योऽथ तथाशक्तिर्भार्गवश्चैव वामनः।मार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महातपाः॥ ३भार्गवश्च्यवनश्चैव शतानन्दश्च धर्मवित्।भरद्वाजश्च तेजस्वी अग्निपुत्रश्च सुप्रभः॥ ४एते चान्ये च मुनयो बहवः संशितव्रताः।राजानश्च नरव्याघ्राः सर्व एव समागताः॥ ५राक्षसाश्च महावीर्या वानराश्च महाबलाः।समाजग्मुर्महात्मानः सर्व एव कुतूहलात्॥ ६क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव सहस्रशः।सीताशपथवीक्षार्थं सर्व एव समागताः॥ ७तथा समागतं सर्वमश्वभूतमिवाचलम्।श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत्॥ ८तमृषिं पृष्ठतः सीता सान्वगच्छदवाङ्मुखी।कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम्॥ ९तां दृष्ट्वा श्रीमिवायान्तीं ब्रह्माणमनुगामिनीम्।वाल्मीकेः पृष्ठतः सीतां साधुकारो महानभूत्॥ १०ततो हलहलाशब्दः सर्वेषामेवमाबभौ।दुःखजेन विशालेन शोकेनाकुलितात्मनाम्॥ ११साधु सीतेति केचित्तु साधु रामेति चापरे।उभावेव तु तत्रान्ये साधु साध्विति चाब्रुवन्॥ १२ततो मध्यं जनौघानां प्रविश्य मुनिपुंगवः।सीतासहायो वाल्मीकिरिति होवाच राघवम्॥ १३इयं दाशरथे सीता सुव्रता धर्मचारिणी।अपापा ते परित्यक्ता ममाश्रमसमीपतः॥ १४लोकापवादभीतस्य तव राम महाव्रत।प्रत्ययं दास्यते सीता तामनुज्ञातुमर्हसि॥ १५इमौ च जानकीपुत्रावुभौ च यमजातकौ।सुतौ तवैव दुर्धर्षौ सत्यमेतद्ब्रवीमि ते॥ १६प्रचेतसोऽहं दशमः पुत्रो राघवनन्दन।न स्मराम्यनृतं वाक्यं तथेमौ तव पुत्रकौ॥ १७बहुवर्षसहस्राणि तपश्चर्या मया कृता।तस्याः फलमुपाश्नीयामपापा मैथिली यथा॥ १८अहं पञ्चसु भूतेषु मनःषष्ठेषु राघव।विचिन्त्य सीतां शुद्धेति न्यगृह्णां वननिर्झरे॥ १९इयं शुद्धसमाचारा अपापा पतिदेवता।लोकापवादभीतस्य दास्यति प्रत्ययं तव॥ २०इति श्रीरामायणे उत्तरकाण्डे सप्ताशीतितमः सर्गः ॥ ८७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved