॥ ॐ श्री गणपतये नमः ॥

९२ सर्गः
तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह।वाक्यं चाद्भुतसंकाशं भ्रातॄन्प्रोवाच राघवः॥ १इमौ कुमारौ सौमित्रे तव धर्मविशारदौ।अङ्गदश्चन्द्रकेतुश्च राज्यार्हौ दृढधन्विनौ॥ २इमौ राज्येऽभिषेक्ष्यामि देशः साधु विधीयताम्।रमणीयो ह्यसंबाधो रमेतां यत्र धन्विनौ॥ ३न राज्ञां यत्र पीदा स्यान्नाश्रमाणां विनाशनम्।स देशो दृश्यतां सौम्य नापराध्यामहे यथा॥ ४तथोक्तवति रामे तु भरतः प्रत्युवाच ह।अयं कारापथो देशः सुरमण्यो निरामयः॥ ५निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः।चन्द्रकेतोश्च रुचिरं चन्द्रकान्तं निरामयम्॥ ६तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः।तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत्॥ ७अङ्गदीया पुरी रम्या अङ्गदस्य निवेशिता।रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा॥ ८चन्द्रकेतोस्तु मल्लस्य मल्लभूम्यां निवेशिता।चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा॥ ९ततो रामः परां प्रीतिं भरतो लक्ष्मणस्तथा।ययुर्युधि दुराधर्षा अभिषेकं च चक्रिरे॥ १०अभिषिच्य कुमारौ द्वौ प्रस्थाप्य सबलानुगौ।अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम्॥ ११अङ्गदं चापि सौमित्रिर्लक्ष्मणोऽनुजगाम ह।चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह॥ १२लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः।पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत्॥ १३भरतोऽपि तथैवोष्य संवत्सरमथाधिकम्।अयोध्यां पुनरागम्य रामपादावुपागमत्॥ १४उभौ सौमित्रिभरतौ रामपादावनुव्रतौ।कालं गतमपि स्नेहान्न जज्ञातेऽतिधार्मिकौ॥ १५एवं वर्षसहस्राणि दश तेषां ययुस्तदा।धर्मे प्रयतमानानां पौरकार्येषु नित्यदा॥ १६विहृत्य कालं परिपूर्णमानसाःश्रिया वृता धर्मपथे परे स्थिताः।त्रयः समिद्धा इव दीप्ततेजसाहुताग्नयः साधु महाध्वरे त्रयः॥ १७इति श्रीरामायणे उत्तरकाण्डे द्विनवतितमः सर्गः ॥ ९२
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved