॥ ॐ श्री गणपतये नमः ॥

५९ सर्गः

तपोबलहतान्कृत्वा वासिष्ठान्समहोदयान्ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत

अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतःधर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतःस्वेनानेन शरीरेण देवलोकजिगीषया

यथायं स्वशरीरेण देवलोकं गमिष्यतितथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह

विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयःऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम्

अयं कुशिकदायादो मुनिः परमकोपनःयदाह वचनं सम्यगेतत्कार्यं संशयः

अग्निकल्पो हि भगवाञ्शापं दास्यति रोषितःतस्मात्प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम्गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा

ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठते

एवमुक्त्वा महर्षयः संजह्रुस्ताः क्रियास्तदायाजकाश्च महातेजा विश्वामित्रोऽभवत्क्रतौ

ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाःचक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि

ततः कालेन महता विश्वामित्रो महातपाःचकारावाहनं तत्र भागार्थं सर्वदेवताः१०

नाह्यागमंस्तदाहूता भागार्थं सर्वदेवताःततः क्रोधसमाविष्टो विश्वमित्रो महामुनिः११

स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत्पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर१२

एष त्वां स्वशरीरेण नयामि स्वर्गमोजसादुष्प्रापं स्वशरीरेण दिवं गच्छ नराधिप१३

स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम्राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज१४

उक्तवाक्ये मुनौ तस्मिन्सशरीरो नरेश्वरःदिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा१५

देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासनःसह सर्वैः सुरगणैरिदं वचनमब्रवीत्१६

त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयःगुरुशापहतो मूढ पत भूमिमवाक्शिराः१७

एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत्पुनःविक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम्१८

तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकःरोषमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्१९

ऋषिमध्ये तेजस्वी प्रजापतिरिवापरःसृजन्दक्षिणमार्गस्थान्सप्तर्षीनपरान्पुनः२०

नक्षत्रमालामपरामसृजत्क्रोधमूर्छितःदक्षिणां दिशमास्थाय मुनिमध्ये महायशाः२१

सृष्ट्वा नक्षत्रवंशं क्रोधेन कलुषीकृतःअन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकःदैवतान्यपि क्रोधात्स्रष्टुं समुपचक्रमे२२

ततः परमसंभ्रान्ताः सर्षिसंघाः सुरर्षभाःविश्वामित्रं महात्मानमूचुः सानुनयं वचः२३

अयं राजा महाभाग गुरुशापपरिक्षतःसशरीरो दिवं यातुं नार्हत्येव तपोधन२४

तेषां तद्वचनं श्रुत्वा देवानां मुनिपुंगवःअब्रवीत्सुमहद्वाक्यं कौशिकः सर्वदेवताः२५

सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेःआरोहणं प्रतिज्ञाय नानृतं कर्तुमुत्सहे२६

सर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतःनक्षत्राणि सर्वाणि मामकानि ध्रुवाण्यथ२७

यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशःमत्कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ२८

एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुंगवम्२९

एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशःगगने तान्यनेकानि वैश्वानरपथाद्बहिः३०

नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिःषु जाज्वलन्अवाक्शिरास्त्रिशङ्कुश्च तिष्ठत्वमरसंनिभः३१

विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतःऋषिभिश्च महातेजा बाढमित्याह देवताः३२

ततो देवा महात्मानो मुनयश्च तपोधनाःजग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम३३

इति श्रीरामायणे बालकाण्डे एकोनषष्टितमः सर्गः५९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved