॥ ॐ श्री गणपतये नमः ॥

८४ सर्गः

भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभःबलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः

पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदःवसानो वाससी क्षौमे पुरोधाय पुरोहितम्

ततः संदर्शने तस्य भरद्वाजस्य राघवःमन्त्रिणस्तानवस्थाप्य जगामानु पुरोहितम्

वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाःसंचचालासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन्

समागम्य वसिष्ठेन भरतेनाभिवादितःअबुध्यत महातेजाः सुतं दशरथस्य तम्

ताभ्यामर्घ्यं पाद्यं दत्त्वा पश्चात्फलानि आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले

अयोध्यायां बले कोशे मित्रेष्वपि मन्त्रिषुजानन्दशरथं वृत्तं राजानमुदाहरत्

वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम्शरीरेऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु

तथेति प्रतिज्ञाय भरद्वाजो महातपाःभरतं प्रत्युवाचेदं राघवस्नेहबन्धनात्

किमिहागमने कार्यं तव राज्यं प्रशासतःएतदाचक्ष्व मे सर्वं हि मे शुध्यते मनः१०

सुषुवे यम मित्रघ्नं कौसल्यानन्दवर्धनम्भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम्११

नियुक्तः स्त्रीनियुक्तेन पित्रा योऽसौ महायशाःवनवासी भवेतीह समाः किल चतुर्दश१२

कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसिअकण्टकं भोक्तुमना राज्यं तस्यानुजस्य १३

एवमुक्तो भरद्वाजं भरतः प्रत्युवाच पर्यश्रु नयनो दुःखाद्वाचा संसज्जमानया१४

हतोऽस्मि यदि मामेवं भगवानपि मन्यतेमत्तो दोषमाशङ्केर्नैवं मामनुशाधि हि१५

चैतदिष्टं माता मे यदवोचन्मदन्तरेनाहमेतेन तुष्टश्च तद्वचनमाददे१६

अहं तु तं नरव्याघ्रमुपयातः प्रसादकःप्रतिनेतुमयोध्यां पादौ तस्याभिवन्दितुम्१७

त्वं मामेवंगतं मत्वा प्रसादं कर्तुमर्हसिशंस मे भगवन्रामः क्व संप्रति महीपतिः१८

उवाच तं भरद्वाजः प्रसादाद्भरतं वचःत्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजेगुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता१९

जाने चैतन्मनःस्थं ते दृढीकरणमस्त्वितिअपृच्छं त्वां तवात्यर्थं कीर्तिं समभिवर्धयन्२०

असौ वसति ते भ्राता चित्रकूटे महागिरौश्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिःएतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद२१

ततस्तथेत्येवमुदारदर्शनःप्रतीतरूपो भरतोऽब्रवीद्वचःचकार बुद्धिं तदा महाश्रमेनिशानिवासाय नराधिपात्मजः२२

इति श्रीरामायणे अयोध्याकाण्डे चतुरशीतितमः सर्गः८४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved