पुनरेवं ब्रुवाणं तु भरतं लक्ष्मणाग्रजः।प्रत्युवच ततः श्रीमाञ्ज्ञातिमध्येऽतिसत्कृतः॥ १
उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथाः।जातः पुत्रो दशरथात्कैकेय्यां राजसत्तमात्॥ २
पुरा भ्रातः पिता नः स मातरं ते समुद्वहन्।मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम्॥ ३
देवासुरे च संग्रामे जनन्यै तव पार्थिवः।संप्रहृष्टो ददौ राजा वरमाराधितः प्रभुः॥ ४
ततः सा संप्रतिश्राव्य तव माता यशस्विनी।अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी॥ ५
तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा।तच्च राजा तथा तस्यै नियुक्तः प्रददौ वरम्॥ ६
तेन पित्राहमप्यत्र नियुक्तः पुरुषर्षभ।चतुर्दश वने वासं वर्षाणि वरदानिकम्॥ ७
सोऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः।शीतया चाप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः॥ ८
भवानपि तथेत्येव पितरं सत्यवादिनम्।कर्तुमर्हति राजेन्द्रं क्षिप्रमेवाभिषेचनात्॥ ९
ऋणान्मोचय राजानं मत्कृते भरत प्रभुम्।पितरं त्राहि धर्मज्ञ मातरं चाभिनन्दय॥ १०
श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विनी।गयेन यजमानेन गयेष्वेव पितॄन्प्रति॥ ११
पुं नाम्ना नरकाद्यस्मात्पितरं त्रायते सुतः।तस्मात्पुत्र इति प्रोक्तः पितॄन्यत्पाति वा सुतः॥ १२
एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः।तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत्॥ १३
एवं राजर्षयः सर्वे प्रतीता राजनन्दन।तस्मात्त्राहि नरश्रेष्ठ पितरं नरकात्प्रभो॥ १४
अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय।शत्रुघ्न सहितो वीर सह सर्वैर्द्विजातिभिः॥ १५
प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन्।आभ्यां तु सहितो राजन्वैदेह्या लक्ष्मणेन च॥ १६
त्वं राजा भव भरत स्वयं नराणांवन्यानामहमपि राजराण्मृगाणाम्।गच्छ त्वं पुरवरमद्य संप्रहृष्टःसंहृष्टस्त्वहमपि दण्डकान्प्रवेक्ष्ये॥ १७
छायां ते दिनकरभाः प्रबाधमानंवर्षत्रं भरत करोतु मूर्ध्नि शीताम्।एतेषामहमपि काननद्रुमाणांछायां तामतिशयिनीं सुखं श्रयिष्ये॥ १८
शत्रुघ्नः कुशलमतिस्तु ते सहायःसौमित्रिर्मम विदितः प्रधानमित्रम्।चत्वारस्तनयवरा वयं नरेन्द्रंसत्यस्थं भरत चराम मा विषादम्॥ १९
इति श्रीरामायणे अयोध्याकाण्डे नवनवतितमः सर्गः ॥ ९९