॥ ॐ श्री गणपतये नमः ॥

सर्गः

ततः प्रहृष्टो हनुमान्कृत्यवानिति तद्वचःश्रुत्वा मधुरसंभाषं सुग्रीवं मनसा गतः

भव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनःयदयं कृत्यवान्प्राप्तः कृत्यं चैतदुपागतम्

ततः परमसंहृष्टो हनूमान्प्लवगर्षभःप्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः

किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम्आगतः सानुजो दुर्गं नानाव्यालमृगायुतम्

तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितःआचचक्षे महात्मानं रामं दशरथात्मजम्

राजा दशरथो नाम द्युतिमान्धर्मवत्सलःतस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः

शरण्यः सर्वभूतानां पितुर्निर्देशपारगःवीरो दशरथस्यायं पुत्राणां गुणवत्तरः

राज्याद्भ्रष्टो वने वस्तुं मया सार्धमिहागतःभार्यया महातेजाः सीतयानुगतो वशीदिनक्षये महातेजाः प्रभयेव दिवाकरः

अहमस्यावरो भ्राता गुणैर्दास्यमुपागतःकृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः

सुखार्हस्य महार्हस्य सर्वभूतहितात्मनःऐश्वर्येण विहीनस्य वनवासाश्रितस्य १०

रक्षसापहृता भार्या रहिते कामरूपिणातच्च ज्ञायते रक्षः पत्नी येनास्य सा हृता११

दनुर्नाम श्रियः पुत्रः शापाद्राक्षसतां गतःआख्यातस्तेन सुग्रीवः समर्थो वानराधिपः१२

ज्ञास्यति महावीर्यस्तव भार्यापहारिणम्एवमुक्त्वा दनुः स्वर्गं भ्राजमानो गतः सुखम्१३

एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतःअहं चैव हि रामश्च सुग्रीवं शरणं गतौ१४

एष दत्त्वा वित्तानि प्राप्य चानुत्तमं यशःलोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति१५

शोकाभिभूते रामे तु शोकार्ते शरणं गतेकर्तुमर्हति सुग्रीवः प्रसादं सह यूथपैः१६

एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम्हनूमान्प्रत्युवाचेदं वाक्यं वाक्यविशारदः१७

ईदृशा बुद्धिसंपन्ना जितक्रोधा जितेन्द्रियाःद्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः१८

हि राज्याच्च विभ्रष्टः कृतवैरश्च वालिनाहृतदारो वने त्रस्तो भ्रात्रा विनिकृतो भृशम्१९

करिष्यति साहाय्यं युवयोर्भास्करात्मजःसुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे२०

इत्येवमुक्त्वा हनुमाञ्श्लक्ष्णं मधुरया गिराबभाषे सोऽभिगच्छामः सुग्रीवमिति राघवम्२१

एवं ब्रुवाणं धर्मात्मा हनूमन्तं लक्ष्मणःप्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम्२२

कपिः कथयते हृष्टो यथायं मारुतात्मजःकृत्यवान्सोऽपि संप्राप्तः कृतकृत्योऽसि राघव२३

प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषतेनानृतं वक्ष्यते वीरो हनूमान्मारुतात्मजः२४

ततः तु महाप्राज्ञो हनूमान्मारुतात्मजःजगामादाय तौ वीरौ हरिराजाय राघवौ२५

तु विपुल यशाः कपिप्रवीरःपवनसुतः कृतकृत्यवत्प्रहृष्टःगिरिवरमुरुविक्रमः प्रयातः शुभमतिः सह रामलक्ष्मणाभ्याम्२६

इति श्रीरामायणे किष्किन्धाकाण्डे चतुर्थः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved