॥ ॐ श्री गणपतये नमः ॥

११ सर्गः

रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम्सुग्रीवः पूजयां चक्रे राघवं प्रशशंस

असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैःत्वं दहेः कुपितो लोकान्युगान्त इव भास्करः

वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च यातन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम्

समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम्क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः

अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपिऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान्

बहवः सारवन्तश्च वनेषु विविधा द्रुमाःवालिना तरसा भग्ना बलं प्रथयतात्मनः

महिषो दुन्दुभिर्नाम कैलासशिखरप्रभःबलं नागसहस्रस्य धारयामास वीर्यवान्

वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितःजगाम महाकायः समुद्रं सरितां पतिम्

ऊर्मिमन्तमतिक्रम्य सागरं रत्नसंचयम्मम युद्धं प्रयच्छेति तमुवाच महार्णवम्

ततः समुद्रो धर्मात्मा समुत्थाय महाबलःअब्रवीद्वचनं राजन्नसुरं कालचोदितम्१०

समर्थो नास्मि ते दातुं युद्धं युद्धविशारदश्रूयतामभिधास्यामि यस्ते युद्धं प्रदास्यति११

शैलराजो महारण्ये तपस्विशरणं परम्शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः१२

गुहा प्रस्रवणोपेतो बहुकन्दरनिर्झरः समर्थस्तव प्रीतिमतुलां कर्तुमाहवे१३

तं भीतमिति विज्ञाय समुद्रमसुरोत्तमःहिमवद्वनमागच्छच्छरश्चापादिव च्युतः१४

ततस्तस्य गिरेः श्वेता गजेन्द्रविपुलाः शिलाःचिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद १५

ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिःहिमवानब्रवीद्वाक्यं स्व एव शिखरे स्थितः१६

क्लेष्टुमर्हसि मां त्वं दुन्दुभे धर्मवत्सलरणकर्मस्वकुशलस्तपस्विशरणं ह्यहम्१७

तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतःउवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः१८

यदि युद्धेऽसमर्थस्त्वं मद्भयाद्वा निरुद्यमःतमाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः१९

हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदःअनुक्तपूर्वं धर्मात्मा क्रोधात्तमसुरोत्तमम्२०

वाली नाम महाप्राज्ञः शक्रतुल्यपराक्रमःअध्यास्ते वानरः श्रीमान्किष्किन्धामतुलप्रभाम्२१

समर्थो महाप्राज्ञस्तव युद्धविशारदःद्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः२२

तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि हि दुर्धर्षणो नित्यं शूरः समरकर्मणि२३

श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः दुन्दुभिःजगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा२४

धारयन्माहिषं रूपं तीक्ष्णशृङ्गो भयावहःप्रावृषीव महामेघस्तोयपूर्णो नभस्तले२५

ततस्तु द्वारमागम्य किष्किन्धाया महाबलःननर्द कम्पयन्भूमिं दुन्दुभिर्दुन्दुभिर्यथा२६

समीपजान्द्रुमान्भञ्जन्वसुधां दारयन्खुरैःविषाणेनोल्लेखन्दर्पात्तद्द्वारं द्विरदो यथा२७

अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणःनिष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः२८

मितं व्यक्ताक्षरपदं तमुवाच दुन्दुभिम्हरीणामीश्वरो वाली सर्वेषां वनचारिणाम्२९

किमर्थं नगरद्वारमिदं रुद्ध्वा विनर्दसिदुन्दुभे विदितो मेऽसि रक्ष प्राणान्महाबल३०

तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतःउवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः३१

त्वं स्त्रीसंनिधौ वीर वचनं वक्तुमर्हसिमम युद्धं प्रयच्छ त्वं ततो ज्ञास्यामि ते बलम्३२

अथ वा धारयिष्यामि क्रोधमद्य निशामिमाम्गृह्यतामुदयः स्वैरं कामभोगेषु वानर३३

यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम्हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम्३४

प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम्विसृज्य ताः स्त्रियः सर्वास्ताराप्रभृतिकास्तदा३५

मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगेमदोऽयं संप्रहारेऽस्मिन्वीरपानं समर्थ्यताम्३६

तमेवमुक्त्वा संक्रुद्धो मालामुत्क्षिप्य काञ्चनीम्पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत३७

विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसंनिभम्वाली व्यापातयां चक्रे ननर्द महास्वनम्३८

युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदाश्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतःपपात महाकायः क्षितौ पञ्चत्वमागतः३९

तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम्चिक्षेप वेगवान्वाली वेगेनैकेन योजनम्४०

तस्य वेगप्रविद्धस्य वक्त्रात्क्षतजबिन्दवःप्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति४१

तान्दृष्ट्वा पतितांस्तत्र मुनिः शोणितविप्रुषःउत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रतिइह तेनाप्रवेष्टव्यं प्रविष्टस्य बधो भवेत्४२

महर्षिं समासाद्य याचते स्म कृताञ्जलिः४३

ततः शापभयाद्भीत ऋश्यमूकं महागिरिम्प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर४४

तस्याप्रवेशं ज्ञात्वाहमिदं राम महावनम्विचरामि सहामात्यो विषादेन विवर्जितः४५

एषोऽस्थिनिचयस्तस्य दुन्दुभेः संप्रकाशतेवीर्योत्सेकान्निरस्तस्य गिरिकूटनिभो महान्४६

इमे विपुलाः सालाः सप्त शाखावलम्बिनःयत्रैकं घटते वाली निष्पत्रयितुमोजसा४७

एतदस्यासमं वीर्यं मया राम प्रकाशितम्कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप४८

यदि भिन्द्याद्भवान्सालानिमांस्त्वेकेषुणा ततःजानीयां त्वां महाबाहो समर्थं वालिनो वधे४९

तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनःराघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलयातोलयित्वा महाबाहुश्चिक्षेप दशयोजनम्५०

क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत्लक्ष्मणस्याग्रतो राममिदं वचनमर्थवत्५१

आर्द्रः समांसप्रत्यग्रः क्षिप्तः कायः पुरा सखेलघुः संप्रति निर्मांसस्तृणभूतश्च राघवनात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम्५२

इति श्रीरामायणे किष्किन्धाकाण्डे एकादशः सर्गः११


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved