॥ ॐ श्री गणपतये नमः ॥

१२ सर्गः

एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम्प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम्

गृहीत्वा धनुर्घोरं शरमेकं मानदःसालानुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन्दिशः

विसृष्टो बलवता बाणः स्वर्णपरिष्कृतःभित्त्वा सालान्गिरिप्रस्थे सप्त भूमिं विवेश

प्रविष्टस्तु मुहूर्तेन रसां भित्त्वा महाजवःनिष्पत्य पुनस्तूर्णं स्वतूणीं प्रविवेश

तान्दृष्ट्वा सप्त निर्भिन्नान्सालान्वानरपुंगवःरामस्य शरवेगेन विस्मयं परमं गतः

मूर्ध्ना न्यपतद्भूमौ प्रलम्बीकृतभूषणःसुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः

इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितःरामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम्

सेन्द्रानपि सुरान्सर्वांस्त्वं बाणैः पुरुषर्षभसमर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो

येन सप्त महासाला गिरिर्भूमिश्च दारिताःबाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः

अद्य मे विगतः शोकः प्रीतिरद्य परा ममसुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम्१०

तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम्वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः११

ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम्प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः१२

अस्माद्गच्छाम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतःगत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम्१३

सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम्वृक्षैरात्मानमावृत्य व्यतिष्ठन्गहने वने१४

सुग्रीवो व्यनदद्घोरं वालिनो ह्वानकारणात्गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम्१५

तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलःनिष्पपात सुसंरब्धो भास्करोऽस्ततटादिव१६

ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत्गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव१७

तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिःजघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ१८

ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तुअन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ१९

यन्नावगच्छत्सुग्रीवं वालिनं वापि राघवःततो कृतवान्बुद्धिं मोक्तुमन्तकरं शरम्२०

एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिनाअपश्यन्राघवं नाथमृश्यमूकं प्रदुद्रुवे२१

क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतःवालिनाभिद्रुतः क्रोधात्प्रविवेश महावनम्२२

तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात्ततःमुक्तो ह्यसि त्वमित्युक्त्वा निवृत्तो महाबलः२३

राघवोऽपि सह भ्रात्रा सह चैव हनूमतातदेव वनमागच्छत्सुग्रीवो यत्र वानरः२४

तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम्ह्रीमान्दीनमुवाचेदं वसुधामवलोकयन्२५

आह्वयस्वेति मामुक्त्वा दर्शयित्वा विक्रमम्वैरिणा घातयित्वा किमिदानीं त्वया कृतम्२६

तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतःवालिनं निहन्मीति ततो नाहमितो व्रजे२७

तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनःकरुणं दीनया वाचा राघवः पुनरब्रवीत्२८

सुग्रीव श्रूयतां तातः क्रोधश्च व्यपनीयताम्कारणं येन बाणोऽयं मया विसर्जितः२९

अलंकारेण वेषेण प्रमाणेन गतेन त्वं सुग्रीव वाली सदृशौ स्थः परस्परम्३०

स्वरेण वर्चसा चैव प्रेक्षितेन वानरविक्रमेण वाक्यैश्च व्यक्तिं वां नोपलक्षये३१

ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तमनोत्सृजामि महावेगं शरं शत्रुनिबर्हणम्३२

एतन्मुहूर्ते तु मया पश्य वालिनमाहवेनिरस्तमिषुणैकेन वेष्टमानं महीतले३३

अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वरयेन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम्३४

गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम्कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः३५

ततो गिरितटे जातामुत्पाट्य कुसुमायुताम्लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत्३६

तथा शुशुभे श्रीमाँल्लतया कण्ठसक्तयामालयेव बलाकानां ससंध्य इव तोयदः३७

विभ्राजमानो वपुषा रामवाक्यसमाहितःजगाम सह रामेण किष्किन्धां वालिपालिताम्३८

इति श्रीरामायणे किष्किन्धाकाण्डे द्वादशः सर्गः१२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved