॥ ॐ श्री गणपतये नमः ॥

१६ सर्गः

तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम्वाली निर्भर्त्सयामास वचनं चेदमब्रवीत्

गर्जतोऽस्य संरम्भं भ्रातुः शत्रोर्विशेषतःमर्षयिष्याम्यहं केन कारणेन वरानने

अधर्षितानां शूराणां समरेष्वनिवर्तिनाम्धर्षणामर्षणं भीरु मरणादतिरिच्यते

सोढुं समर्थोऽहं युद्धकामस्य संयुगेसुग्रीवस्य संरम्भं हीनग्रीवस्य गर्जतः

कार्यो विषादस्ते राघवं प्रति मत्कृतेधर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति

निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसिसौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया

प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि संभ्रमम्दर्पं चास्य विनेष्यामि प्राणैर्विमोक्ष्यते

शापितासि मम प्राणैर्निवर्तस्व जयेन अहं जित्वा निवर्तिष्ये तमलं भ्रातरं रणे

तं तु तारा परिष्वज्य वालिनं प्रियवादिनीचकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम्

ततः स्वस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणीअन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता१०

प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम्नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन्११

निःश्वस्य महावेगो वाली परमरोषणःसर्वतश्चारयन्दृष्टिं शत्रुदर्शनकाङ्क्षया१२

ददर्श ततः श्रीमान्सुग्रीवं हेमपिङ्गलम्सुसंवीतमवष्टब्धं दीप्यमानमिवानलम्१३

तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम्गाढं परिदधे वासो वाली परमरोषणः१४

वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान्सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः१५

श्लिष्टमुष्टिं समुद्यम्य संरब्धतरमागतःसुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम्१६

तं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम्आपतन्तं महावेगमिदं वचनमब्रवीत्१७

एष मुष्टिर्मया बद्धो गाढः सुनिहिताङ्गुलिःमया वेगविमुक्तस्ते प्राणानादाय यास्यति१८

एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत्तवैव हरन्प्राणान्मुष्टिः पततु मूर्धनि१९

ताडितस्तेन संक्रुद्धः समभिक्रम्य वेगतःअभवच्छोणितोद्गारी सोत्पीड इव पर्वतः२०

सुग्रीवेण तु निःसंगं सालमुत्पाट्य तेजसागात्रेष्वभिहतो वाली वज्रेणेव महागिरिः२१

तु वाली प्रचरितः सालताडनविह्वलःगुरुभारसमाक्रान्ता सागरे नौरिवाभवत्२२

तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौप्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे२३

वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमःवालिनं प्रति सामर्षो दर्शयामास लाघवम्२४

ततो धनुषि संधाय शरमाशीविषोपमम्राघवेण महाबाणो वालिवक्षसि पातितः२५

वेगेनाभिहतो वाली निपपात महीतले२६

अथोक्षितः शोणिततोयविस्रवैःसुपुष्पिताशोक इवानिलोद्धतःविचेतनो वासवसूनुराहवेप्रभ्रंशितेन्द्रध्वजवत्क्षितिं गतः२७

इति श्रीरामायणे किष्किन्धाकाण्डे षोडशः सर्गः१६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved