॥ ॐ श्री गणपतये नमः ॥

१७ सर्गः

ततः शरेणाभिहतो रामेण रणकर्कशःपपात सहसा वाली निकृत्त इव पादपः

भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणःअपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः

तस्मिन्निपतिते भूमौ हर्यृषाणां गणेश्वरेनष्टचन्द्रमिव व्योम व्यराजत भूतलम्

भूमौ निपतितस्यापि तस्य देहं महात्मनः श्रीर्जहाति प्राणा तेजो पराक्रमः

शक्रदत्ता वरा माला काञ्चनी रत्नभूषितादधार हरिमुख्यस्य प्राणांस्तेजः श्रियं सा

तया मालया वीरो हैमया हरियूथपःसंध्यानुगतपर्यन्तः पयोधर इवाभवत्

तस्य माला देहश्च मर्मघाती यः शरःत्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते

तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम्रामबाणासनक्षिप्तमावहत्परमां गतिम्

तं तथा पतितं संख्ये गतार्चिषमिवानलम्ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम्

आदित्यमिव कालेन युगान्ते भुवि पातितम्महेन्द्रमिव दुर्धर्षं महेन्द्रमिव दुःसहम्१०

महेन्द्रपुत्रं पतितं वालिनं हेममालिनम्सिंहोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम्लक्ष्मणानुगतो रामो ददर्शोपससर्प ११

दृष्ट्वा राघवं वाली लक्ष्मणं महाबलम्अब्रवीत्प्रश्रितं वाक्यं परुषं धर्मसंहितम्१२

पराङ्मुखवधं कृत्वा को नु प्राप्तस्त्वया गुणःयदहं युद्धसंरब्धस्त्वत्कृते निधनं गतः१३

कुलीनः सत्त्वसंपन्नस्तेजस्वी चरितव्रतःरामः करुणवेदी प्रजानां हिते रतः१४

सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतःइति ते सर्वभूतानि कथयन्ति यशो भुवि१५

तान्गुणान्संप्रधार्याहमग्र्यं चाभिजनं तवतारया प्रतिषिद्धः सन्सुग्रीवेण समागतः१६

मामन्येन संरब्धं प्रमत्तं वेद्धुमर्हसिइति मे बुद्धिरुत्पन्ना बभूवादर्शने तव१७

त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम्जाने पापसमाचारं तृणैः कूपमिवावृतम्१८

सतां वेषधरं पापं प्रच्छन्नमिव पावकम्नाहं त्वामभिजानानि धर्मच्छद्माभिसंवृतम्१९

विषये वा पुरे वा ते यदा नापकरोम्यहम् त्वां प्रतिजानेऽहं कस्मात्त्वं हंस्यकिल्बिषम्२०

फलमूलाशनं नित्यं वानरं वनगोचरम्मामिहाप्रतियुध्यन्तमन्येन समागतम्२१

त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनःलिङ्गमप्यस्ति ते राजन्दृश्यते धर्मसंहितम्२२

कः क्षत्रियकुले जातः श्रुतवान्नष्टसंशयःधर्मलिङ्ग प्रतिच्छन्नः क्रूरं कर्म समाचरेत्२३

राम राजकुले जातो धर्मवानिति विश्रुतःअभव्यो भव्यरूपेण किमर्थं परिधावसि२४

साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौपार्थिवानां गुणा राजन्दण्डश्चाप्यपकारिषु२५

वयं वनचरा राम मृगा मूलफलाशनाःएषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः२६

भूमिर्हिरण्यं रूप्यं निग्रहे कारणानि तत्र कस्ते वने लोभो मदीयेषु फलेषु वा२७

नयश्च विनयश्चोभौ निग्रहानुग्रहावपिराजवृत्तिरसंकीर्णा नृपाः कामवृत्तयः२८

त्वं तु कामप्रधानश्च कोपनश्चानवस्थितःराजवृत्तैश्च संकीर्णः शरासनपरायणः२९

तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिताइन्द्रियैः कामवृत्तः सन्कृष्यसे मनुजेश्वर३०

हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम्किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम्३१

राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतःनास्तिकः परिवेत्ता सर्वे निरयगामिनः३२

अधार्यं चर्म मे सद्भी रोमाण्यस्थि वर्जितम्अभक्ष्याणि मांसानि त्वद्विधैर्धर्मचारिभिः३३

पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघवशल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः३४

चर्म चास्थि मे राजन्न स्पृशन्ति मनीषिणःअभक्ष्याणि मांसानि सोऽहं पञ्चनखो हतः३५

त्वया नाथेन काकुत्स्थ सनाथा वसुंधराप्रमदा शीलसंपन्ना धूर्तेन पतिता यथा३६

शठो नैकृतिकः क्षुद्रो मिथ्या प्रश्रितमानसःकथं दशरथेन त्वं जातः पापो महात्मना३७

छिन्नचारित्र्यकक्ष्येण सतां धर्मातिवर्तिनात्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना३८

दृश्यमानस्तु युध्येथा मया युधि नृपात्मजअद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया३९

त्वयादृश्येन तु रणे निहतोऽहं दुरासदःप्रसुप्तः पन्नगेनेव नरः पानवशं गतः४०

सुग्रीवप्रियकामेन यदहं निहतस्त्वयाकण्ठे बद्ध्वा प्रदद्यां तेऽनिहतं रावणं रणे४१

न्यस्तां सागरतोये वा पाताले वापि मैथिलीम्जानयेयं तवादेशाच्छ्वेतामश्वतरीमिव४२

युक्तं यत्प्रप्नुयाद्राज्यं सुग्रीवः स्वर्गते मयिअयुक्तं यदधर्मेण त्वयाहं निहतो रणे४३

काममेवंविधं लोकः कालेन विनियुज्यतेक्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम्४४

इत्येवमुक्त्वा परिशुष्कवक्त्रःशराभिघाताद्व्यथितो महात्मासमीक्ष्य रामं रविसंनिकाशंतूष्णीं बभूवामरराजसूनुः४५

इति श्रीरामायणे किष्किन्धाकाण्डे सप्तदशः सर्गः१७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved