॥ ॐ श्री गणपतये नमः ॥

१८ सर्गः

इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम्परुषं वालिना रामो निहतेन विचेतसा

तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम्उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम्

धर्मार्थगुणसंपन्नं हरीश्वरमनुत्तमम्अधिक्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत्

धर्ममर्थं कामं समयं चापि लौकिकम्अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे

अपृष्ट्वा बुद्धिसंपन्नान्वृद्धानाचार्यसंमतान्सौम्य वानरचापल्यात्त्वं मां वक्तुमिहेच्छसि

इक्ष्वाकूणामियं भूमिः सशैलवनकाननामृगपक्षिमनुष्याणां निग्रहानुग्रहावपि

तां पालयति धर्मात्मा भरतः सत्यवागृजुःधर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः

नयश्च विनयश्चोभौ यस्मिन्सत्यं सुस्थितम्विक्रमश्च यथा दृष्टः राजा देशकालवित्

तस्य धर्मकृतादेशा वयमन्ये पार्थिवःचरामो वसुधां कृत्स्नां धर्मसंतानमिच्छवः

तस्मिन्नृपतिशार्दूल भरते धर्मवत्सलेपालयत्यखिलां भूमिं कश्चरेद्धर्मनिग्रहम्१०

ते वयं मार्गविभ्रष्टं स्वधर्मे परमे स्थिताःभरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि११

त्वं तु संक्लिष्टधर्मा कर्मणा विगर्हितःकामतन्त्रप्रधानश्च स्थितो राजवर्त्मनि१२

ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छतित्रयस्ते पितरो ज्ञेया धर्मे पथि वर्तिनः१३

यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितःपुत्रवत्ते त्रयश्चिन्त्या धर्मश्चेदत्र कारणम्१४

सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवंगमहृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम्१५

चपलश्चपलैः सार्धं वानरैरकृतात्मभिःजात्यन्ध इव जात्यन्धैर्मन्त्रयन्द्रक्ष्यसे नु किम्१६

अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते हि मां केवलं रोषात्त्वं विगर्हितुमर्हसि१७

तदेतत्कारणं पश्य यदर्थं त्वं मया हतःभ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम्१८

अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनःरुमायां वर्तसे कामात्स्नुषायां पापकर्मकृत्१९

तद्व्यतीतस्य ते धर्मात्कामवृत्तस्य वानरभ्रातृभार्याभिमर्शेऽस्मिन्दण्डोऽयं प्रतिपादितः२०

हि धर्मविरुद्धस्य लोकवृत्तादपेयुषःदण्डादन्यत्र पश्यामि निग्रहं हरियूथप२१

औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यःप्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः२२

भरतस्तु महीपालो वयं त्वादेशवर्तिनःत्वं धर्मादतिक्रान्तः कथं शक्यमुपेक्षितुम्२३

गुरुधर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन्भरतः कामवृत्तानां निग्रहे पर्यवस्थितः२४

वयं तु भरतादेशं विधिं कृत्वा हरीश्वरत्वद्विधान्भिन्नमर्यादान्नियन्तुं पर्यवस्थिताः२५

सुग्रीवेण मे सख्यं लक्ष्मणेन यथा तथादारराज्यनिमित्तं निःश्रेयसि रतः मे२६

प्रतिज्ञा मया दत्ता तदा वानरसंनिधौप्रतिज्ञा कथं शक्या मद्विधेनानवेक्षितुम्२७

तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंहितैःशासनं तव यद्युक्तं तद्भवाननुमन्यताम्२८

सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहःवयस्यस्योपकर्तव्यं धर्ममेवानुपश्यता२९

राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाःनिर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा३०

आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम्श्रमणेन कृते पापे यथा पापं कृतं त्वया३१

अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैःप्रायश्चित्तं कुर्वन्ति तेन तच्छाम्यते रजः३२

तदलं परितापेन धर्मतः परिकल्पितःवधो वानरशार्दूल वयं स्ववशे स्थिताः३३

वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराःप्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून्मृगान्प्रधावितान्वा वित्रस्तान्विस्रब्धानतिविष्ठितान्३४

प्रमत्तानप्रमत्तान्वा नरा मांसार्थिनो भृशम्विध्यन्ति विमुखांश्चापि दोषोऽत्र विद्यते३५

यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाःतस्मात्त्वं निहतो युद्धे मया बाणेन वानरअयुध्यन्प्रतियुध्यन्वा यस्माच्छाखामृगो ह्यसि३६

दुर्लभस्य धर्मस्य जीवितस्य शुभस्य राजानो वानरश्रेष्ठ प्रदातारो संशयः३७

तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत्देवा मानुषरूपेण चरन्त्येते महीतले३८

त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितःप्रदूषयसि मां धर्मे पितृपैतामहे स्थितम्३९

एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम्प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः४०

यत्त्वमात्थ नरश्रेष्ठ तदेवं नात्र संशयःप्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात्४१

यदयुक्तं मया पूर्वं प्रमादाद्वाक्यमप्रियम्तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव४२

त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां हिते रतःकार्यकारणसिद्धौ ते प्रसन्ना बुद्धिरव्यया४३

मामप्यवगतं धर्माद्व्यतिक्रान्तपुरस्कृतम्धर्मसंहितया वाचा धर्मज्ञ परिपालय४४

बाष्पसंरुद्धकण्ठस्तु वाली सार्तरवः शनैःउवाच रामं संप्रेक्ष्य पङ्कलग्न इव द्विपः४५

त्वात्मानमहं शोचे तारां नापि बान्धवान्यथा पुत्रं गुणश्रेष्ठमङ्गदं कनकाङ्गदम्४६

ममादर्शनाद्दीनो बाल्यात्प्रभृति लालितःतटाक इव पीताम्बुरुपशोषं गमिष्यति४७

सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम्त्वं हि शास्ता गोप्ता कार्याकार्यविधौ स्थितः४८

या ते नरपते वृत्तिर्भरते लक्ष्मणे यासुग्रीवे चाङ्गदे राजंस्तां चिन्तयितुमर्हसि४९

मद्दोषकृतदोषां तां यथा तारां तपस्विनीम्सुग्रीवो नावमन्येत तथावस्थातुमर्हसि५०

त्वया ह्यनुगृहीतेन शक्यं राज्यमुपासितुम्त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना५१

तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम्५२

वयं भवता चिन्त्या नाप्यात्मा हरिसत्तमवयं भवद्विशेषेण धर्मतः कृतनिश्चयाः५३

दण्ड्ये यः पातयेद्दण्डं दण्ड्यो यश्चापि दण्ड्यतेकार्यकारणसिद्धार्थावुभौ तौ नावसीदतः५४

तद्भवान्दण्डसंयोगादस्माद्विगतकल्मषःगतः स्वां प्रकृतिं धर्म्यां धर्मदृष्ट्तेन वर्त्मना५५

तस्य वाक्यं मधुरं महात्मनःसमाहितं धर्मपथानुवर्तिनःनिशम्य रामस्य रणावमर्दिनोवचः सुयुक्तं निजगाद वानरः५६

शराभितप्तेन विचेतसा मयाप्रदूषितस्त्वं यदजानता प्रभोइदं महेन्द्रोपमभीमविक्रमप्रसादितस्त्वं क्षम मे महीश्वर५७

इति श्रीरामायणे किष्किन्धाकाण्डे अष्टादशः सर्गः१८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved