॥ ॐ श्री गणपतये नमः ॥

२२ सर्गः

वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन्आदावेव तु सुग्रीवं ददर्श त्वात्मजाग्रतः

तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरम्आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत्

सुग्रीवदोषेण मां गन्तुमर्हसि किल्बिषात्कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात्

युगपद्विहितं तात मन्ये सुखमावयोःसौहार्दं भ्रातृयुक्तं हि तदिदं जातमन्यथा

प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम्मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम्

जीवितं हि राज्यं श्रियं विपुलामिमाम्प्रजहाम्येष वै तूर्णं महच्चागर्हितं यशः

अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचःयद्यप्यसुकरं राजन्कर्तुमेव तदर्हसि

सुखार्हं सुखसंवृद्धं बालमेनमबालिशम्बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम्

मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसंमया हीनमहीनार्थं सर्वतः परिपालय

त्वमप्यस्य हि दाता परित्राता सर्वतःभयेष्वभयदश्चैव यथाहं प्लवगेश्वर१०

एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमःरक्षसां तु वधे तेषामग्रतस्ते भविष्यति११

अनुरूपाणि कर्माणि विक्रम्य बलवान्रणेकरिष्यत्येष तारेयस्तरस्वी तरुणोऽङ्गदः१२

सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चयेऔत्पातिके विविधे सर्वतः परिनिष्ठिता१३

यदेषा साध्विति ब्रूयात्कार्यं तन्मुक्तसंशयम् हि तारामतं किंचिदन्यथा परिवर्तते१४

राघवस्य ते कार्यं कर्तव्यमविशङ्कयास्यादधर्मो ह्यकरणे त्वां हिंस्याद्विमानितः१५

इमां मालामाधत्स्व दिव्यां सुग्रीवकाञ्चनीम्उदारा श्रीः स्थिता ह्यस्यां संप्रजह्यान्मृते मयि१६

इत्येवमुक्तः सुग्रीवो वालिना भ्रातृसौहृदात्हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट्१७

तद्वालिवचनाच्छान्तः कुर्वन्युक्तमतन्द्रितःजग्राह सोऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम्१८

तां मालां काञ्चनीं दत्त्वा वाली दृष्ट्वात्मजं स्थितम्संसिद्धः प्रेत्य भावाय स्नेहादङ्गदमब्रवीत्१९

देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रियेसुखदुःखसहः काले सुग्रीववशगो भव२०

यथा हि त्वं महाबाहो लालितः सततं मया तथा वर्तमानं त्वां सुग्रीवो बहु मंस्यते२१

मास्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिंदमभर्तुरर्थपरो दान्तः सुग्रीववशगो भव२२

चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च तेउभयं हि महादोषं तस्मादन्तरदृग्भव२३

इत्युक्त्वाथ विवृत्ताक्षः शरसंपीडितो भृशम्विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः२४

हते तु वीरे प्लवगाधिपे तदाप्लवंगमास्तत्र शर्म लेभिरेवनेचराः सिंहयुते महावनेयथा हि गावो निहते गवां पतौ२५

ततस्तु तारा व्यसनार्णव प्लुतामृतस्या भर्तुर्वदनं समीक्ष्य साजगाम भूमिं परिरभ्य वालिनंमहाद्रुमं छिन्नमिवाश्रिता लता२६

इति श्रीरामायणे किष्किन्धाकाण्डे द्वाविंशतितमः सर्गः२२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved