॥ ॐ श्री गणपतये नमः ॥

२३ सर्गः

ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम्पतिं लोकाच्च्युतं तारा मृतं वचनमब्रवीत्

शेषे त्वं विषमे दुःखमकृत्वा वचनं ममउपलोपचिते वीर सुदुःखे वसुधातले

मत्तः प्रियतरा नूनं वानरेन्द्र मही तवशेषे हि तां परिष्वज्य मां प्रतिभाषसे

सुग्रीव एव विक्रान्तो वीर साहसिक प्रियऋक्षवानरमुख्यास्त्वां बलिनं पर्युपासते

एषां विलपितं कृच्छ्रमङ्गदस्य शोचतःमम चेमां गिरं श्रुत्वा किं त्वं प्रतिबुध्यसे

इदं तच्छूरशयनं यत्र शेषे हतो युधिशायिता निहता यत्र त्वयैव रिपवः पुरा

विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रियमामनाथां विहायैकां गतस्त्वमसि मानद

शूराय प्रदातव्या कन्या खलु विपश्चिताशूरभार्यां हतां पश्य सद्यो मां विधवां कृताम्

अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिःअगाधे निमग्नास्मि विपुले शोकसागरे

अश्मसारमयं नूनमिदं मे हृदयं दृढम्भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा गतम्१०

सुहृच्चैव हि भर्ता प्रकृत्या मम प्रियःआहवे पराक्रान्तः शूरः पञ्चत्वमागतः११

पतिहीना तु या नारी कामं भवतु पुत्रिणीधनधान्यैः सुपूर्णापि विधवेत्युच्यते बुधैः१२

स्वगात्रप्रभवे वीर शेषे रुधिरमण्डलेकृमिरागपरिस्तोमे त्वमेवं शयने यथा१३

रेणुशोणितसंवीतं गात्रं तव समन्ततःपरिरब्धुं शक्नोमि भुजाभ्यां प्लवगर्षभ१४

कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणेयस्य रामविमुक्तेन हृतमेकेषुणा भयम्१५

शरेण हृदि लग्नेन गात्रसंस्पर्शने तववार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते१६

उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदागिरिगह्वरसंलीनं दीप्तमाशीविषं यथा१७

तस्य निष्कृष्यमाणस्य बाणस्य बभौ द्युतिःअस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव१८

पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशःताम्रगैरिकसंपृक्ता धारा इव धराधरात्१९

अवकीर्णं विमार्जन्ती भर्तारं रणरेणुनाअस्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम्२०

रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम्उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना२१

अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम्संप्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा२२

बालसूर्योदयतनुं प्रयान्तं यमसादनम्अभिवादय राजानं पितरं पुत्र मानदम्२३

एवमुक्तः समुत्थाय जग्राह चरणौ पितुःभुजाभ्यां पीनवृताभ्यामङ्गदोऽहमिति ब्रुवन्२४

अभिवादयमानं त्वामङ्गदं त्वं यथापुरादीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे२५

अहं पुत्रसहाया त्वामुपासे गतचेतनम्सिंहेन निहतं सद्यो गौः सवत्सेव गोवृषम्२६

इष्ट्वा संग्रामयज्ञेन नानाप्रहरणाम्भसाअस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना२७

या दत्ता देवराजेन तव तुष्टेन संयुगेशातकुम्भमयीं मालां तां ते पश्यामि नेह किम्२८

राजश्रीर्न जहाति त्वां गतासुमपि मानदसूर्यस्यावर्तमानस्य शैलराजमिव प्रभा२९

मे वचः पथ्यमिदं त्वया कृतं चास्मि शक्ता हि निवारणे तवहता सपुत्रास्मि हतेन संयुगेसह त्वया श्रीर्विजहाति मामिह३०

इति श्रीरामायणे किष्किन्धाकाण्डे त्रयोविंशतितमः सर्गः२३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved