॥ ॐ श्री गणपतये नमः ॥

२५ सर्गः

ततः शोकाभिसंतप्तं सुग्रीवं क्लिन्नवासनम्शाखामृगमहामात्राः परिवार्योपतस्थिरे

अभिगम्य महाबाहुं राममक्लिष्टकारिणम्स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः

ततः काञ्चनशैलाभस्तरुणार्कनिभाननःअब्रवीत्प्राञ्जलिर्वाक्यं हनुमान्मारुतात्मजः

भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत्वानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो

भवता समनुज्ञातः प्रविश्य नगरं शुभम्संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः

स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधिअर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः

इमां गिरिगुहां रम्यामभिगन्तुमितोऽर्हसिकुरुष्व स्वामि संबन्धं वानरान्संप्रहर्षयन्

एवमुक्तो हनुमता राघवः परवीरहाप्रत्युवाच हनूमन्तं बुद्धिमान्वाक्यकोविदः

चतुर्दशसमाः सौम्य ग्रामं वा यदि वा पुरम् प्रवेक्ष्यामि हनुमन्पितुर्निर्देशपालकः

सुसमृद्धां गुहां दिव्यां सुग्रीवो वानरर्षभःप्रविष्टो विधिवद्वीरः क्षिप्रं राज्येऽभिषिच्यताम्१०

एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत्इममप्यङ्गदं वीर यौवराज्येऽभिषेचय११

पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमःप्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसंज्ञिताः१२

नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम्अस्मिन्वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः१३

इयं गिरिगुहा रम्या विशाला युक्तमारुताप्रभूतसलिला सौम्य प्रभूतकमलोत्पला१४

कार्तिके समनुप्राप्ते त्वं रावणवधे यतएष नः समयः सौम्य प्रविश त्वं स्वमालयम्अभिषिञ्चस्व राज्ये सुहृदः संप्रहर्षय१५

इति रामाभ्यनुज्ञातः सुग्रीवो वानरर्षभःप्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम्१६

तं वानरसहस्राणि प्रविष्टं वानरेश्वरम्अभिवाद्य प्रहृष्टानि सर्वतः पर्यवारयन्१७

ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम्प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः१८

सुग्रीवः प्रकृतीः सर्वाः संभाष्योत्थाप्य वीर्यवान्भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः१९

प्रविश्य त्वभिनिष्क्रान्तं सुग्रीवं वानरर्षभम्अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः२०

तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम्शुक्ले बालव्यजने हेमदण्डे यशस्करे२१

तथा सर्वाणि रत्नानि सर्वबीजौषधानि सक्षीराणां वृक्षाणां प्ररोहान्कुसुमानि २२

शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम्सुगन्धीनि माल्यानि स्थलजान्यम्बुजानि २३

चन्दनानि दिव्यानि गन्धांश्च विविधान्बहून्अक्षतं जातरूपं प्रियङ्गुमधुसर्पिषी२४

दधिचर्म वैयाघ्रं वाराही चाप्युपानहौसमालम्भनमादाय रोचनां समनःशिलाम्आजग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश२५

ततस्ते वानरश्रेष्ठं यथाकालं यथाविधिरत्नैर्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान्२६

ततः कुशपरिस्तीर्णं समिद्धं जातवेदसंमन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः२७

ततो हेमप्रतिष्ठाने वरास्तरणसंवृतेप्रासादशिखरे रम्ये चित्रमाल्योपशोभिते२८

प्राङ्मुखं विविधैर्मन्त्रैः स्थापयित्वा वरासनेनदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः२९

आहृत्य समुद्रेभ्यः सर्वेभ्यो वानरर्षभाःअपः कनककुम्भेषु निधाय विमलाः शुभाः३०

शुभैर्वृषभशृङ्गैश्च कलशैश्चापि काञ्चनैःशास्त्रदृष्टेन विधिना महर्षिविहितेन ३१

गजो गवाक्षो गवयः शरभो गन्धमादनःमैन्दश्च द्विविदश्चैव हनूमाञ्जाम्बवान्नलः३२

अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिनासलिलेन सहस्राक्षं वसवो वासवं यथा३३

अभिषिक्ते तु सुग्रीवे सर्वे वानरपुंगवाःप्रचुक्रुशुर्महात्मानो हृष्टास्तत्र सहस्रशः३४

रामस्य तु वचः कुर्वन्सुग्रीवो हरिपुंगवःअङ्गदं संपरिष्वज्य यौवराज्येऽभिषेचयत्३५

अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवंगमाःसाधु साध्विति सुग्रीवं महात्मानोऽभ्यपूजयन्३६

हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिताबभूव नगरी रम्या क्षिकिन्धा गिरिगह्वरे३७

निवेद्य रामाय तदा महात्मनेमहाभिषेकं कपिवाहिनीपतिःरुमां भार्यां प्रतिलभ्य वीर्यवानवाप राज्यं त्रिदशाधिपो यथा३८

इति श्रीरामायणे किष्किन्धाकाण्डे पञ्चविंशतितमः सर्गः२५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved