स तदा वालिनं हत्वाह्सुग्रीवमभिषिच्य च।वसन्माल्यवतः पृष्टे रामो लक्ष्मणमब्रवीत्॥ १
अयं स कालः संप्राप्तः समयोऽद्य जलागमः।संपश्य त्वं नभो मेघैः संवृतं गिरिसंनिभैः॥ २
नव मास धृतं गर्भं भास्कारस्य गभस्तिभिः।पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम्॥ ३
शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः।कुटजार्जुनमालाभिरलंकर्तुं दिवाकरम्॥ ४
संध्यारागोत्थितैस्ताम्रैरन्तेष्वधिकपाण्डुरैः।स्निग्धैरभ्रपटच्छदैर्बद्धव्रणमिवाम्बरम्॥ ५
मन्दमारुतनिःश्वासं संध्याचन्दनरञ्जितम्।आपाण्डुजलदं भाति कामातुरमिवाम्बरम्॥ ६
एषा धर्मपरिक्लिष्टा नववारिपरिप्लुता।सीतेव शोकसंतप्ता मही बाष्पं विमुञ्चति॥ ७
मेघोदरविनिर्मुक्ताः कह्लारसुखशीतलाः।शक्यमञ्जलिभिः पातुं वाताः केतकिगन्धिनः॥ ८
एष फुल्लार्जुनः शैलः केतकैरधिवासितः।सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते॥ ९
मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः।मारुतापूरितगुहाः प्राधीता इव पर्वताः॥ १०
कशाभिरिव हैमीभिर्विद्युद्भिरिव ताडितम्।अन्तःस्तनितनिर्घोषं सवेदनमिवाम्बरम्॥ ११
नीलमेघाश्रिता विद्युत्स्फुरन्ती प्रतिभाति मे।स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी॥ १२
इमास्ता मन्मथवतां हिताः प्रतिहता दिशः।अनुलिप्ता इव घनैर्नष्टग्रहनिशाकराः॥ १३
क्वचिद्बाष्पाभिसंरुद्धान्वर्षागमसमुत्सुकान्।कुटजान्पश्य सौमित्रे पुष्टितान्गिरिसानुषु।मम शोकाभिभूतस्य कामसंदीपनान्स्थितान्॥ १४
रजः प्रशान्तं सहिमोऽद्य वायुर्निदाघदोषप्रसराः प्रशान्ताः।स्थिता हि यात्रा वसुधाधिपानांप्रवासिनो यान्ति नराः स्वदेशान्॥ १५
संप्रस्थिता मानसवासलुब्धाःप्रियान्विताः संप्रति चक्रवाकः।अभीक्ष्णवर्षोदकविक्षतेषुयानानि मार्गेषु न संपतन्ति॥ १६
क्वचित्प्रकाशं क्वचिदप्रकाशंनभः प्रकीर्णाम्बुधरं विभाति।क्वचित्क्वचित्पर्वतसंनिरुद्धंरूपं यथा शान्तमहार्णवस्य॥ १७
व्यामिश्रितं सर्जकदम्बपुष्पैर्नवं जलं पर्वतधातुताम्रम्।मयूरकेकाभिरनुप्रयातंशैलापगाः शीघ्रतरं वहन्ति॥ १८
रसाकुलं षट्पदसंनिकाशंप्रभुज्यते जम्बुफलं प्रकामम्।अनेकवर्णं पवनावधूतंभूमौ पतत्याम्रफलं विपक्वम्॥ १९
विद्युत्पताकाः सबलाक मालाःशैलेन्द्रकूटाकृतिसंनिकाशाः।गर्जन्ति मेघाः समुदीर्णनादामत्तगजेन्द्रा इव संयुगस्थः॥ २०
मेघाभिकामी परिसंपतन्तीसंमोदिता भाति बलाकपङ्क्तिः।वातावधूता वरपौण्डरीकीलम्बेव माला रचिताम्बरस्य॥ २१
निद्रा शनैः केशवमभ्युपैतिद्रुतं नदी सागरमभ्युपैति।हृष्टा बलाका घनमभ्युपैतिकान्ता सकामा प्रियमभ्युपैति॥ २२
जाता वनान्ताः शिखिसुप्रनृत्ताजाताः कदम्बाः सकदम्बशाखाः।जाता वृषा गोषु समानकामाजाता मही सस्यवनाभिरामा॥ २३
वहन्ति वर्षन्ति नदन्ति भान्तिध्यायन्ति नृत्यन्ति समाश्वसन्ति।नद्यो घना मत्तगजा वनान्ताःप्रियाविनीहाः शिखिनः प्लवंगाः॥ २४
प्रहर्षिताः केतकपुष्पगन्धमाघ्राय हृष्टा वननिर्झरेषु।प्रपात शब्दाकुलिता गजेन्द्राःसार्धं मयूरैः समदा नदन्ति॥ २५
धारानिपातैरभिहन्यमानाःकदम्बशाखासु विलम्बमानाः।क्षणार्जितं पुष्परसावगाढंशनैर्मदं षट्चरणास्त्यजन्ति॥ २६
अङ्गारचूर्णोत्करसंनिकाशैःफलैः सुपर्याप्त रसैः समृद्धैः।जम्बूद्रुमाणां प्रविभान्ति शाखानिलीयमाना इव षट्पदौघैः॥ २७
तडित्पताकाभिरलंकृतानामुदीर्णगम्भीरमहारवाणाम्।विभान्ति रूपाणि बलाहकानांरणोद्यतानामिव वारणानाम्॥ २८
मार्गानुगः शैलवनानुसारीसंप्रस्थितो मेघरवं निशम्य।युद्धाभिकामः प्रतिनागशङ्कीमत्तो गजेन्द्रः प्रतिसंनिवृत्तः॥ २९
मुक्तासकाशं सलिलं पतद्वैसुनिर्मलं पत्रपुटेषु लग्नम्।हृष्टा विवर्णच्छदना विहंगाःसुरेन्द्रदत्तं तृषिताः पिबन्ति॥ ३०
नीलेषु नीला नववारिपूर्णामेघेषु मेघाः प्रविभान्ति सक्ताः।दवाग्निदग्धेषु दवाग्निदग्धाःशैलेषु शैला इव बद्धमूलाः॥ ३१
मत्ता गजेन्द्रा मुदिता गवेन्द्रावनेषु विश्रान्ततरा मृगेन्द्राः।रम्या नगेन्द्रा निभृता नगेन्द्राःप्रक्रीडितो वारिधरैः सुरेन्द्रः॥ ३२
वृत्ता यात्रा नरेन्द्राणां सेना प्रतिनिवर्तते।वैराणि चैव मार्गाश्च सलिलेन समीकृताः॥ ३३
मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम्।अयमध्यायसमयः सामगानामुपस्थितः॥ ३४
निवृत्तकर्मायतनो नूनं संचितसंचयः।आषाढीमभ्युपगतो भरतः कोषकाधिपः॥ ३५
नूनमापूर्यमाणायाः सरय्वा वधते रयः।मां समीक्ष्य समायान्तमयोध्याया इव स्वनः॥ ३६
इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखमश्नुते।विजितारिः सदारश्च राज्ये महति च स्थितः॥ ३७
अहं तु हृतदारश्च राज्याच्च महतश्च्युतः।नदीकूलमिव क्लिन्नमवसीदामि लक्ष्मण॥ ३८
शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः।रावणश्च महाञ्शत्रुरपारं प्रतिभाति मे॥ ३९
अयात्रां चैव दृष्ट्वेमां मार्गांश्च भृशदुर्गमान्।प्रणते चैव सुग्रीवे न मया किंचिदीरितम्॥ ४०
अपि चातिपरिक्लिष्टं चिराद्दारैः समागतम्।आत्मकार्यगरीयस्त्वाद्वक्तुं नेच्छामि वानरम्॥ ४१
स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम्।उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः॥ ४२
तस्मात्कालप्रतीक्षोऽहं स्थितोऽस्मि शुभलक्षण।सुग्रीवस्य नदीनां च प्रसादमनुपालयन्॥ ४३
उपकारेण वीरो हि प्रतिकारेण युज्यते।अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः॥ ४४
अथैवमुक्तः प्रणिधाय लक्ष्मणःकृताञ्जलिस्तत्प्रतिपूज्य भाषितम्।उवाच रामं स्वभिराम दर्शनंप्रदर्शयन्दर्शनमात्मनः शुभम्॥ ४५
यथोक्तमेतत्तव सर्वमीप्सितंनरेन्द्र कर्ता नचिराद्धरीश्वरः।शरत्प्रतीक्षः क्षमतामिमं भवाञ्जलप्रपातं रिपुनिग्रहे धृतः॥ ४६
इति श्रीरामायणे किष्किन्धाकाण्डे सप्तविंशतितमः सर्गः ॥ २७