॥ ॐ श्री गणपतये नमः ॥

३७ सर्गः

प्रतिगृह्य तत्सर्वमुपानयमुपाहृतम्वानरान्सान्त्वयित्वा सर्वानेव व्यसर्जयत्

विसर्जयित्वा हरीञ्शूरांस्तान्कृतकर्मणःमेने कृतार्थमात्मानं राघवं महाबलम्

लक्ष्मणो भीमबलं सर्ववानरसत्तमम्अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं संप्रहर्षयन्किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते

तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम्सुग्रीवः परमप्रीतो वाक्यमेतदुवाच

एवं भवतु गच्छामः स्थेयं त्वच्छासने मयातमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्ष्मणम्

विसर्जयामास तदा तारामन्याश्च योषितःएतेत्युच्चैर्हरिवरान्सुग्रीवः समुदाहरत्

तस्य तद्वचनं श्रुत्वा हरयः शीघ्रमाययुःबद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः

तानुवाच ततः प्राप्तान्राजार्कसदृशप्रभःउपस्थापयत क्षिप्रं शिबिकां मम वानराः

श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाःसमुपस्थापयामासुः शिबिकां प्रियदर्शनाम्

तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपःलक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत्१०

इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसंनिभम्बृहद्भिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः११

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनिशुक्लैश्च बालव्यजनैर्धूयमानैः समन्ततः१२

शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितःनिर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम्१३

वानरशतैस्तीष्क्णैर्बहुभिः शस्त्रपाणिभिःपरिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः१४

तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम्अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः१५

आसाद्य ततो रामं कृताञ्जलिपुटोऽभवत्कृताञ्जलौ स्थिते तस्मिन्वानराश्चभवंस्तथा१६

तटाकमिव तद्दृष्ट्वा रामः कुड्मलपङ्कजम्वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत्१७

पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम्प्रेंणा बहुमानाच्च राघवः परिषस्वजे१८

परिष्वज्य धर्मात्मा निषीदेति ततोऽब्रवीत्तं निषण्णं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः१९

धर्ममर्थं कामं काले यस्तु निषेवतेविभज्य सततं वीर राजा हरिसत्तम२०

हित्वा धर्मं तथार्थं कामं यस्तु निषेवते वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते२१

अमित्राणां वधे युक्तो मित्राणां संग्रहे रतःत्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते२२

उद्योगसमयस्त्वेष प्राप्तः शत्रुविनाशनसंचिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः२३

एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत्२४

प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं शाश्वतम्त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया२५

तव देवप्रसदाच्च भ्रातुश्च जयतां वरकृतं प्रतिकुर्याद्यः पुरुषाणां दूषकः२६

एते वानरमुख्याश्च शतशः शत्रुसूदनप्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान्२७

ऋक्षाश्चावहिताः शूरा गोलाङ्गूलाश्च राघवकान्तार वनदुर्गाणामभिज्ञा घोरदर्शनाः२८

देवगन्धर्वपुत्राश्च वानराः कामरूपिणःस्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव२९

शतैः शतसहस्रैश्च कोटिभिश्च प्लवंगमाःअयुतैश्चावृता वीरा शङ्कुभिश्च परंतप३०

अर्बुदैरर्बुदशतैर्मध्यैश्चान्तैश्च वानराःसमुद्रैश्च परार्धैश्च हरयो हरियूथपाः३१

आगमिष्यन्ति ते राजन्महेन्द्रसमविक्रमाःमेरुमन्दरसंकाशा विन्ध्यमेरुकृतालयाः३२

ते त्वामभिगमिष्यन्ति राक्षसं ये सबान्धवम्निहत्य रावणं संख्ये ह्यानयिष्यन्ति मैथिलीम्३३

ततस्तमुद्योगमवेक्ष्य बुद्धिमान्हरिप्रवीरस्य निदेशवर्तिनःबभूव हर्षाद्वसुधाधिपात्मजःप्रबुद्धनीलोत्पलतुल्यदर्शनः३४

इति श्रीरामायणे किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः३७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved