॥ ॐ श्री गणपतये नमः ॥

४१ सर्गः

ततः प्रस्थाप्य सुग्रीवस्तान्हरीन्दक्षिणां दिशम्बुद्धिविक्रमसंपन्नान्वायुवेगसमाञ्जवे

अथाहूय महातेजाः सुषेणं नाम यूथपम्तारायाः पितरं राजा श्वशुरभीमविक्रमम्

अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य साहाय्यं कुरु रामस्य कृत्येऽस्मिन्समुपस्थिते

वृतः शतसहस्रेण वानराणां तरस्विनाम्अभिगच्छ दिशं सौम्य पश्चिमां वारुणीं प्रभो

सुराष्ट्रान्सह बाह्लीकाञ्शूराभीरांस्तथैव स्फीताञ्जनपदान्रम्यान्विपुलानि पुराणि

पुंनागगहनं कुक्षिं बहुलोद्दालकाकुलम्तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः

प्रत्यक्स्रोतोगमाश्चैव नद्यः शीतजलाः शिवाःतापसानामरण्यानि कान्तारा गिरयश्च ये

गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम्ततः पश्चिममासाद्य समुद्रं द्रष्टुमर्हथतिमि नक्रायुत जलमक्षोभ्यमथ वानरः

ततः केतकषण्डेषु तमालगहनेषु कपयो विहरिष्यन्ति नारिकेलवनेषु

तत्र सीतां मार्गध्वं निलयं रावणस्य मरीचिपत्तनं चैव रम्यं चैव जटीपुरम्१०

अवन्तीमङ्गलोपां तथा चालक्षितं वनम्राष्ट्राणि विशालानि पत्तनानि ततस्ततः११

सिन्धुसागरयोश्चैव संगमे तत्र पर्वतःमहान्हेमगिरिर्नाम शतशृङ्गो महाद्रुमः१२

तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताःतिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते१३

तानि नीडानि सिंहानां गिरिशृङ्गगताश्च येदृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाःविचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः१४

तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम्सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः१५

कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनम्दुर्दर्शां परियात्रस्य गता द्रक्ष्यथ वानराः१६

कोट्यस्तत्र चतुर्विंशद्गन्धर्वाणां तरस्विनाम्वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम्१७

नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैःनादेयं फलं तस्माद्देशात्किंचित्प्लवंगमैः१८

दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाःफलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः१९

तत्र यत्नश्च कर्तव्यो मार्गितव्या जानकी हि तेभ्यो भयं किंचित्कपित्वमनुवर्तताम्२०

चतुर्भागे समुद्रस्य चक्रवान्नाम पर्वतःतत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा२१

तत्र पञ्चजनं हत्वा हयग्रीवं दानवम्आजहार ततश्चक्रं शङ्खं पुरुषोत्तमः२२

तस्य सानुषु चित्रेषु विशालासु गुहासु रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः२३

योजनानि चतुःषष्टिर्वराहो नाम पर्वतःसुवर्णशृङ्गः सुश्रीमानगाधे वरुणालये२४

तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम्यस्मिन्वस्ति दुष्टात्मा नरको नाम गुहासु २५

तस्य सानुषु चित्रेषु विशालासु गुहासु रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः२६

तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरःपर्वतः सर्वसौवर्णो धारा प्रस्रवणायुतः२७

तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतःअभिगर्जन्ति सततं तेन शब्देन दर्पिताः२८

तस्मिन्हरिहयः श्रीमान्महेन्द्रः पाकशासनःअभिषिक्तः सुरै राजा मेघवान्नाम पर्वतः२९

तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम्षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ३०

तरुणादित्यवर्णानि भ्राजमानानि सर्वतःजातरूपमयैर्वृक्षैः शोभितानि सुपुष्पितैः३१

तेषां मध्ये स्थितो राजा मेरुरुत्तमपर्वतःआदित्येन प्रसन्नेन शैलो दत्तवरः पुरा३२

तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाःमत्प्रसादाद्भविष्यन्ति दिवारात्रौ काञ्चनाः३३

त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाःते भविष्यन्ति रक्ताश्च प्रभया काञ्चनप्रभाः३४

आदित्या वसवो रुद्रा मरुतश्च दिवौकसःआगम्य पश्चिमां संध्यां मेरुमुत्तमपर्वतम्३५

आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभिपूजितःअदृश्यः सर्वभूतानामस्तं गच्छति पर्वतम्३६

योजनानां सहस्राणि दशतानि दिवाकरःमुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम्३७

शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसंनिभम्प्रासादगुणसंबाधं विहितं विश्वकर्मणा३८

शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैःनिकेतं पाशहस्तस्य वरुणस्य महात्मनः३९

अन्तरा मेरुमस्तं तालो दशशिरा महान्जातरूपमयः श्रीमान्भ्राजते चित्रवेदिकः४०

तेषु सर्वेषु दुर्गेषु सरःसु सरित्सु रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः४१

यत्र तिष्ठति धर्मात्मा तपसा स्वेन भावितःमेरुसावर्णिरित्येव ख्यातो वै ब्रह्मणा समः४२

प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसंनिभःप्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति४३

एतावज्जीवलोकस्य भास्करो रजनीक्षयेकृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम्४४

एतावद्वानरैः शक्यं गन्तुं वानरपुंगवाःअभास्करममर्यादं जानीमस्ततः परम्४५

अधिगम्य तु वैदेहीं निलयं रावणस्य अस्तं पर्वतमासाद्य पूर्णे मासे निवर्तत४६

ऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्ममसहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति४७

श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्ट कारिभिःगुरुरेष महाबाहुः श्वशुरो मे महाबलः४८

भवन्तश्चापि विक्रान्ताः प्रमाणं सर्वकर्मसुप्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम्४९

दृष्टायां तु नरेन्द्रस्या पत्न्याममिततेजसःकृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा५०

अतोऽन्यदपि यत्किंचित्कार्यस्यास्य हितं भवेत्संप्रधार्य भवद्भिश्च देशकालार्थसंहितम्५१

ततः सुषेण प्रमुखाः प्लवंगमाःसुग्रीववाक्यं निपुणं निशम्यआमन्त्र्य सर्वे प्लवगाधिपं तेजग्मुर्दिशं तां वरुणाभिगुप्ताम्५२

इति श्रीरामायणे किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः४१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved