॥ ॐ श्री गणपतये नमः ॥

४३ सर्गः

विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान् हि तस्मिन्हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने

भूमौ नान्तरिक्षे वा नाम्बरे नामरालयेनाप्सु वा गतिसंगं ते पश्यामि हरिपुंगव

सासुराः सहगन्धर्वाः सनागनरदेवताःविदिताः सर्वलोकास्ते ससागरधराधराः

गतिर्वेगश्च तेजश्च लाघवं महाकपेपितुस्ते सदृशं वीर मारुतस्य महौजसः

तेजसा वापि ते भूतं समं भुवि विद्यतेतद्यथा लभ्यते सीता तत्त्वमेवोपपादय

त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमःदेशकालानुवृत्तश्च नयश्च नयपण्डित

ततः कार्यसमासंगमवगम्य हनूमतिविदित्वा हनुमन्तं चिन्तयामास राघवः

सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरःनिश्चितार्थतरश्चापि हनूमान्कार्यसाधने

तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिःभर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः

तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम्कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः१०

ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम्अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः११

अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजामत्सकाशादनुप्राप्तमनुद्विग्नानुपश्यति१२

व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमःसुग्रीवस्य संदेशः सिद्धिं कथयतीव मे१३

तद्गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिःवन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः१४

तत्प्रकर्षन्हरिणां बलं महद्बभूव वीरः पवनात्मजः कपिगताम्बुदे व्योम्नि विशुद्धमण्डलःशशीव नक्षत्रगणोपशोभितः१५

अतिबलबलमाश्रितस्तवाहंहरिवरविक्रमविक्रमैरनल्पैःपवनसुत यथाभिगम्यते साजनकसुता हनुमंस्तथा कुरुष्व१६

इति श्रीरामायणे किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः४३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved