॥ ॐ श्री गणपतये नमः ॥

४४ सर्गः

तदुग्रशासनं भर्तुर्विज्ञाय हरिपुंगवाःशलभा इव संछाद्य मेदिनीं संप्रतस्थिरे

रामः प्रस्रवणे तस्मिन्न्यवसत्सहलक्ष्मणःप्रतीक्षमाणस्तं मासं यः सीताधिगमे कृतः

उत्तरां तु दिशं रम्यां गिरिराजसमावृताम्प्रतस्थे सहसा वीरो हरिः शतबलिस्तदा

पूर्वां दिशं प्रति ययौ विनतो हरियूथपः

ताराङ्गदादि सहितः प्लवगः पवनात्मजःअगस्त्यचरितामाशां दक्षिणां हरियूथपः

पश्चिमां तु दिशं घोरां सुषेणः प्लवगेश्वरःप्रतस्थे हरिशार्दूलो भृशं वरुणपालिताम्

ततः सर्वा दिशो राजा चोदयित्वा यथा तथम्कपिसेना पतीन्मुख्यान्मुमोद सुखितः सुखम्

एवं संचोदिताः सर्वे राज्ञा वानरयूथपाःस्वां स्वां दिशमभिप्रेत्य त्वरिताः संप्रतस्थिरे

नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवंगमाःक्ष्वेलन्तो धावमानाश्च ययुः प्लवगसत्तमाःआनयिष्यामहे सीतां हनिष्यामश्च रावणम्

अहमेको हनिष्यामि प्राप्तं रावणमाहवेततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम्१०

वेपमानं श्रमेणाद्य भवद्भिः स्थीयतामितिएक एवाहरिष्यामि पातालादपि जानकीम्११

विधमिष्याम्यहं वृक्षान्दारयिष्याम्यहं गिरीन्धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान्१२

अहं योजनसंख्यायाः प्लविता नात्र संशयःशतं योजनसंख्यायाः शतं समधिकं ह्यहम्१३

भूतले सागरे वापि शैलेषु वनेषु पातालस्यापि वा मध्ये ममाच्छिद्यते गतिः१४

इत्येकैकं तदा तत्र वानरा बलदर्पिताःऊचुश्च वचनं तस्मिन्हरिराजस्य संनिधौ१५

इति श्रीरामायणे किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः४४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved