॥ ॐ श्री गणपतये नमः ॥

४७ सर्गः

सहताराङ्गदाभ्यां तु गत्वा हनुमान्कपिःसुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे

तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैःविचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि

पर्वताग्रान्नदीदुर्गान्सरांसि विपुलान्द्रुमान्वृक्षषण्डांश्च विविधान्पर्वतान्घनपादपान्

अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम् सीतां ददृशुर्वीरा मैथिलीं जनकात्मजाम्

ते भक्षयन्तो मूलानि फलानि विविधानि अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र तु देशो दुरन्वेषो गुहागहनवान्महान्

त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाःदेशमन्यं दुराधर्षं विविशुश्चाकुतोभयाः

यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताःनिस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम्

सन्ति महिषा यत्र मृगा हस्तिनःशार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः

स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाःप्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्चापि वर्जिताः

कण्डुर्नाम महाभागः सत्यवादी तपोधनःमहर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः१०

तस्य तस्मिन्वने पुत्रो बालको दशवार्षिकःप्रनष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः११

तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम्अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम्१२

तस्य ते काननान्तांस्तु गिरीणां कन्दराणि प्रभवानि नदीनांच विचिन्वन्ति समाहिताः१३

तत्र चापि महात्मानो नापश्यञ्जनकात्मजाम्हर्तारं रावणं वापि सुग्रीवप्रियकारिणः१४

ते प्रविश्य तु तं भीमं लतागुल्मसमावृतम्ददृशुः क्रूरकर्माणमसुरं सुरनिर्भयम्१५

तं दृष्ट्वा वनरा घोरं स्थितं शैलमिवापरम्गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम्१६

सोऽपि तान्वानरान्सर्वान्नष्टाः स्थेत्यब्रवीद्बलीअभ्यधावत संक्रुद्धो मुष्टिमुद्यम्य संहितम्१७

तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदारावणोऽयमिति ज्ञात्वा तलेनाभिजघान १८

वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन्असुरो न्यपतद्भूमौ पर्यस्त इव पर्वतः१९

ते तु तस्मिन्निरुच्छ्वासे वानरा जितकाशिनःव्यचिन्वन्प्रायशस्तत्र सर्वं तद्गिरिगह्वरम्२०

विचितं तु ततः कृत्वा सर्वे ते काननं पुनःअन्यदेवापरं घोरं विविशुर्गिरिगह्वरम्२१

ते विचिन्त्य पुनः खिन्ना विनिष्पत्य समागताःएकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः२२

इति श्रीरामायणे किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः४७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved