॥ ॐ श्री गणपतये नमः ॥

४९ सर्गः

सह ताराङ्गदाभ्यां तु संगम्य हनुमान्कपिःविचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि

सिंहशार्दूलजुष्टाश्च गुहाश्च परितस्तथाविषमेषु नगेन्द्रस्य महाप्रस्रवणेषु

तेषां तत्रैव वसतां कालो व्यत्यवर्तत

हि देशो दुरन्वेषो गुहा गहनवान्महान्तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम्

परस्परेण रहिता अन्योन्यस्याविदूरतःगजो गवाक्षो गवयः शरभो गन्धमादनः

मैन्दश्च द्विविदश्चैव हनुमाञ्जाम्बवानपिअङ्गदो युवराजश्च तारश्च वनगोचरः

गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम्क्षुत्पिपासा परीताश्च श्रान्ताश्च सलिलार्थिनःअवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम्

ततः क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन्जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः

ततस्तद्बिलमासाद्य सुगन्धि दुरतिक्रमम्विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः

संजातपरिशङ्कास्ते तद्बिलं प्लवगोत्तमाःअभ्यपद्यन्त संहृष्टास्तेजोवन्तो महाबलाः१०

ततः पर्वतकूटाभो हनुमान्मारुतात्मजःअब्रवीद्वानरान्सर्वान्कान्तार वनकोविदः११

गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम्वयं सर्वे परिश्रान्ता पश्यामि मैथिलीम्१२

अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैःजलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वशः१३

नूनं सलिलवानत्र कूपो वा यदि वा ह्रदःतथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः१४

इत्युक्तास्तद्बिलं सर्वे विविशुस्तिमिरावृतम्अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम्१५

ततस्तस्मिन्बिले दुर्गे नानापादपसंकुलेअन्योन्यं संपरिष्वज्य जग्मुर्योजनमन्तरम्१६

ते नष्टसंज्ञास्तृषिताः संभ्रान्ताः सलिलार्थिनःपरिपेतुर्बिले तस्मिन्कंचित्कालमतन्द्रिताः१७

ते कृशा दीनवदनाः परिश्रान्ताः प्लवंगमाःआलोकं ददृशुर्वीरा निराशा जीविते तदा१८

ततस्तं देशमागम्य सौम्यं वितिमिरं वनम्ददृशुः काञ्चनान्वृक्षान्दीप्तवैश्वानरप्रभान्१९

सालांस्तालांश्च पुंनागान्ककुभान्वञ्जुलान्धवान्चम्पकान्नागवृक्षांश्च कर्णिकारांश्च पुष्पितान्२०

तरुणादित्यसंकाशान्वैदूर्यमयवेदिकान्नीलवैदूर्यवर्णाश्च पद्मिनीः पतगावृताः२१

महद्भिः काञ्चनैर्वृक्षैर्वृतं बालार्क संनिभैःजातरूपमयैर्मत्स्यैर्महद्भिश्च सकच्छपैः२२

नलिनीस्तत्र ददृशुः प्रसन्नसलिलायुताःकाञ्चनानि विमानानि राजतानि तथैव २३

तपनीयगवाक्षाणि मुक्ताजालावृतानि हैमराजतभौमानि वैदूर्यमणिमन्ति २४

ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशःपुष्पितान्फलिनो वृक्षान्प्रवालमणिसंनिभान्२५

काञ्चनभ्रमरांश्चैव मधूनि समन्ततःमणिकाञ्चनचित्राणि शयनान्यासनानि २६

महार्हाणि यानानि ददृशुस्ते समन्ततःहैमराजतकांस्यानां भाजनानां संचयान्२७

अगरूणां दिव्यानां चन्दनानां संचयान्शुचीन्यभ्यवहार्याणि मूलानि फलानि २८

महार्हाणि पानानि मधूनि रसवन्ति दिव्यानामम्बराणां महार्हाणां संचयान्कम्बलानां चित्राणामजिनानां संचयान्२९

तत्र तत्र विचिन्वन्तो बिले तत्र महाप्रभाःददृशुर्वानराः शूराः स्त्रियं कांचिददूरतः३०

तां दृष्ट्वा भृशसंत्रस्ताश्चीरकृष्णाजिनाम्बराम्तापसीं नियताहारां ज्वलन्तीमिव तेजसा३१

ततो हनूमान्गिरिसंनिकाशःकृताञ्जलिस्तामभिवाद्य वृद्धाम्पप्रच्छ का त्वं भवनं बिलं रत्नानि चेमानि वदस्व कस्य३२

इति श्रीरामायणे किष्किन्धाकाण्डे एकोनपञ्चाशः सर्गः४९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved